________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 8 का. ]
मभिधाय, 'कर्म्मण्यथाभ्युदयिके' - इत्यादिना तेषामेवाभ्युदयिकदेवता
त्वाभिधानात् । यदपि, -
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
66
"अमावस्यायां पितरः पूज्यानान्दीमुखा पि” ।
इति ब्रह्मपुराणीयकन्यागतापरपक्षविषयं प्रागुक्तनान्दीमुखसंज्ञाविधानम्, -इति । तदप्यसङ्गतम् ।
"
“ये स्युः पितामहादूर्द्धं ते स्युनान्दीमुखास्त्विति” । इति कन्यागतापरपक्षस्यब्रह्मपुराणएव तत्र पृथङ्नान्दीमुखसंज्ञाविधानात् । " खजनकादीनां देवतात्वप्रतीतेर्ब्रह्मपुराणीयप्रपितामहपि - चादित्रिकपचेोजीवत्पिचादित्रिकयजमानविषयः । यस्य त्रयोजीवन्ति स नैव कुर्य्यादिति विष्णूकनिषेधेोवृद्धिश्राद्धेष्यतिदेशात् प्राप्तद्वति चेन्न, उपदेशेनातिदेशवाधात्” – इति कल्पतरुः । “युक्तञ्चैतत् । पित्रा - दीनां त्रयाणामपि विद्यमानत्वात् चतुर्थादयः प्रजावन्तः, चतुर्थादिसन्निहितत्वेन पित्रादित्रयाणां तद्विषयदुःखभाजनत्वेन सन्निहितमरणधर्म्मकत्वाच्चाश्रुमुखत्वम्” – इति मदनपारिजातः । शूलपाणिस्त्वेतदबुद्धा, यदा जयः प्रब्रजिताः पतिता वा म्टतास्तदा ब्रह्मपुराणीयवचनमित्याह । तदपि न सुन्दरम् । तदानों वृद्धप्रपितामहादीनां प्रजावत्त्वाभावात् ।
१०४६
"ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते ।
व्युत्क्रमाच मृते देयं येभ्यएव ददात्यसौ ” ।
इति च्छन्दोगपरिशिष्टवचनेन तन्मते तेषां पार्व्वणादिसकलश्राद्धातथा श्राभ्युदयिकमात्र गोचरे वचनारम्भश्च न पुनरास्येनेोपपद्यते । एवन्तावत्पर्यवसिता पूर्व्वसूचवर्णना । 'प्रीयन्तामित्यतव्यस्थाने' -
21
For Private and Personal Use Only