________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
श्राहकल्पः।
[४ का.]
पिढन् नान्दीमुखान्नाम तर्पयेदिधिपूर्वकम्” । इति । यच्च मार्कण्डेयपुराणस्य,
“ये स्युः पितामहादुई ते स्युनीन्दीमुखाइति" । इति। तदुभयमपि तत्तदुक्तप्रयोगविषयम् । अस्मच्छास्त्रविरोधेनैतविषयत्वासम्भवात् । अनयोस्तत्तत्प्रयोगविषयत्वादेव, एकत्र प्रपितामहादूद्धानाम्, अन्यत्र प्रपितामहमारभ्य नान्दीमुखमंज्ञाविधानमुपपद्यते । तदनेन,
"वृद्धमुख्यास्तु पितरोवृद्धिश्राद्धेषु भुञ्जते”। इति स्मृतिरपि व्याख्याता। अस्मादचनात्,-पित्रादिष्वेव वृद्धशब्दप्रयोगः, इत्यहृदयव्याहृतम्। न ह्यत्र पित्रादीनां वृद्धसंज्ञा विधीयते । वृद्धमुख्यास्तु पिहननूद्य भोक्रत्वं तेषामुच्यते, इति। अनयैव दिशा
"नान्दीमुखे विवाहे च प्रपितामहपर्वकम् ।
वाक्यमुच्चारयेद्विद्वानन्यत्र पिटपूर्वकम्” । इति वृद्धवशिष्ठादिवचनान्यपि व्याख्येयानि । रघुनन्दनस्वेतदजानानोव्याचष्टे,-'नान्दीमुखे पुचादिसमृद्धीनामादिभूते विवाहे । यस्त्वर्थः -अन्यत्रप्राप्तपित्रादिक्रमव्यवच्छेदाय'-इति। तदश्रद्धेयम् । हेमाद्रिस्तु,
“नान्दीमुखानां श्राद्धन्तु कन्याराशिगते रवी ।
पौर्णमास्यान्तु कर्तव्यं वराहवचनं यथा" । इति प्रौष्ठपदीविषयएव वृद्धप्रपितामहादीनां देवतात्वमित्याह । तदमङ्गतम्। पूर्वोक्तब्रह्मपुराणे वृद्धप्रपितामहादीनां नान्दीमुखसंज्ञा
For Private and Personal Use Only