________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ का.]
श्राद्धकल्पः।
१०४७
तेषां विशेषोनान्दीमुखत्वमनेन विधीयते, इति वक्रव्यं भवति । तदेवं नान्दीमुखविशेषणवन्तः पितर देवताभवन्ति, इति न किमपि विरोत्स्यते । कथं पराचीनमुद्दिश्य प्राचीनस्य विधिरिति चेत् । किं क्रियतां, यत्र प्राचीनमुद्दिश्य पराचीनस्य विधिर्न सम्भवति। न चैवमत्रैव केवलं भवति । "मधुरः सुधावदधरः" इत्यादी बहुत्र तदुपलम्भात् । किं भवति प्रयोजनं व्यत्यस्योपदेशस्य ? । नान्दीमुखपदस्य पित्रादिपदात् पूर्व प्रयोगप्रज्ञापनमिति ब्रूमः । तस्मात्,'नान्दीमुखाः पितरः'-इत्यनेन वृद्धप्रपितामहादीनामत्र देवतात्वम् , खधावाचने पित्रादिपदमेव वृद्धवप्रपितामहादिवोधकम् , इत्यसङ्गतं वचनम्। 'पिढभ्यः पितामहेभ्यः' इत्यादिस्पष्टार्थपराणां वाक्यानामन्यार्थपरत्ववर्णनस्यानुचितत्वाच्च । तथा कात्यायनः ।
"खपिटभ्यः पिता दद्यात् सुतसंस्कारकर्मसु ।
पिण्डानोदहनात्तेषां तस्याभावे तु तत्क्रमात्” । इति 'खपिलभ्यः-इति ब्रुवाण: पित्रादीनामेवात्र देवतात्वं ज्ञापयति । "खपदस्य प्रपितामह-पित्रादिव्यावर्तकतयैव सार्थकत्वात्" इति नारायणोपाध्यायाः। यत्पुनर्ब्रह्मपुराणोयं वचनम्,
"पिता पितामहश्चैव तथैव प्रपितामहः । त्रयोह्यश्रुमुखा ते पितरः परिकीर्तिताः । तेभ्यः पूर्वतराये च प्रजावन्तः सुखोचिताः । ते तु नान्दीमुखाः, नान्दी-समृद्धिरितिकथ्यते । कर्मण्यथाभ्युदयिके मङ्गल्यवति शेभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च ।
For Private and Personal Use Only