Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 567
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 8 का. ] मभिधाय, 'कर्म्मण्यथाभ्युदयिके' - इत्यादिना तेषामेवाभ्युदयिकदेवता त्वाभिधानात् । यदपि, - Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । 66 "अमावस्यायां पितरः पूज्यानान्दीमुखा पि” । इति ब्रह्मपुराणीयकन्यागतापरपक्षविषयं प्रागुक्तनान्दीमुखसंज्ञाविधानम्, -इति । तदप्यसङ्गतम् । " “ये स्युः पितामहादूर्द्धं ते स्युनान्दीमुखास्त्विति” । इति कन्यागतापरपक्षस्यब्रह्मपुराणएव तत्र पृथङ्नान्दीमुखसंज्ञाविधानात् । " खजनकादीनां देवतात्वप्रतीतेर्ब्रह्मपुराणीयप्रपितामहपि - चादित्रिकपचेोजीवत्पिचादित्रिकयजमानविषयः । यस्य त्रयोजीवन्ति स नैव कुर्य्यादिति विष्णूकनिषेधेोवृद्धिश्राद्धेष्यतिदेशात् प्राप्तद्वति चेन्न, उपदेशेनातिदेशवाधात्” – इति कल्पतरुः । “युक्तञ्चैतत् । पित्रा - दीनां त्रयाणामपि विद्यमानत्वात् चतुर्थादयः प्रजावन्तः, चतुर्थादिसन्निहितत्वेन पित्रादित्रयाणां तद्विषयदुःखभाजनत्वेन सन्निहितमरणधर्म्मकत्वाच्चाश्रुमुखत्वम्” – इति मदनपारिजातः । शूलपाणिस्त्वेतदबुद्धा, यदा जयः प्रब्रजिताः पतिता वा म्टतास्तदा ब्रह्मपुराणीयवचनमित्याह । तदपि न सुन्दरम् । तदानों वृद्धप्रपितामहादीनां प्रजावत्त्वाभावात् । १०४६ "ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच मृते देयं येभ्यएव ददात्यसौ ” । इति च्छन्दोगपरिशिष्टवचनेन तन्मते तेषां पार्व्वणादिसकलश्राद्धातथा श्राभ्युदयिकमात्र गोचरे वचनारम्भश्च न पुनरास्येनेोपपद्यते । एवन्तावत्पर्यवसिता पूर्व्वसूचवर्णना । 'प्रीयन्तामित्यतव्यस्थाने' - 21 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606