Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४४
श्राडकाल्पः।
[ का.]
खोकपरतया न तत्र पितामहादिपदप्रयोगः । केचितु, षष्ठेरव नित्यं तत्कार्यम्-इति कात्यायनवचनं पठन्तोपि नान्दीमुखाः पितरः प्रीयन्ताम्' इत्येतावन्मात्रेणाक्षय्योदकदानं इच्छन्ति । ये तु 'अक्षय्यमस्तु'-इत्यन्तं वाक्यमुच्चार्य 'नान्दीमुखाः पितरः प्रीयन्ताम्'-दूति वदन्ति । ते खल्वेकोद्दिष्टेऽपि तथैव वाक्यमुल्लिख्य 'उपतिष्ठताम्'इति किमिति न वदन्तीति प्रष्टव्याः। तुल्यं खल्वनयोः सूत्रणम्'उपतिष्ठतामित्यक्षय्यस्थाने'-इति, 'नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्य स्थाने'-इति च। तचैतद्दाक्यं वैकल्पिक मन्तव्यम् । कुतः ? । 'अक्षय्योदकदानञ्च'-इति च्छन्दोगपरिशिष्टवचनादव कर्माणि 'अक्षय्यमस्तु'-इत्यस्यापि प्राप्तेः। ___ अत्र किञ्चिदक्रव्यमस्ति । तत्र तावत्, नान्दोमुखाः पितरः,इति वचनात् नान्दीमुखानां पितॄणामत्र देवतात्वं गम्यते। तदेवं वैकृतादिधेरनुमानात् प्राकृतानां केवलपित्रादीनां देवतात्वमत्र निवतते । यथा चातुर्मास्येषु माकमेधे रतीये पर्वणि "अमयेऽनीकवते प्रातरष्टाकपालोमरुद्भ्यः सान्तपनेभ्योमध्यन्दिने चरुः मरुद्भ्यो ग्रहमेधिभ्यः मामां दुग्धे मायमोदनम्”-दूति प्रातमध्यन्दिने मायमित्यहः कालेषु दृष्टीनां समानानात्-यथा देवदत्तः प्रातरपूपान भक्षयति मध्यन्दिने विविधमन्नमनाति अपरान्हे मोदकान् खादति,इत्येकस्मिनहनि, इति गम्यते, तथाऽत्रापि गम्यते, इत्येकस्मिन्नहनि दृष्टीनामवगमात् सद्यस्कालता विकृतीनाममूषामिटीनामिति चोदकप्राप्तं दैयहकाल्यं वाध्यते, इति पञ्चमेऽध्याये सिद्धान्तितम्, तबादत्रापि बोद्धव्यम् । तथाचोक्तम्। "अपि वा क्रमकालसंयुक्ता मद्यः
For Private and Personal Use Only

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606