Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 563
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ का.] श्राद्धकल्पः। १०४५ क्रियेत तत्र विधेरनुमानात् प्राकृतधर्मलोपः स्यात्" इति। तस्मात् नान्दीमुखविशेषणविशिष्टानां पित्रादीनामत्र देवतात्वावगमात् चोदकप्राप्तं केवलानां पित्रादीनां देवतात्वं निवर्तते। तेनाभिलापे नान्दीमुख पितरित्यादिकं प्रयोज्यम् । भन्नेम्वपि, 'श्रावह नान्दीमखान् पिन्'-इति ‘एत नान्दीमुखाः पितरः' इति चैवमादिकं यथासम्भवमूहनीयम्। न चागन्तुकानामन्तेऽभिनिवेशः, इति न्यायात् पित्रादिनाम्नः परतानान्दीमुखपदमुल्लेखनीयमिति वाच्यम् । प्राकृतदेवतावाधेनात्रामीषां देवतात्वेनागन्तुकवाभावात् । नान्दीमुखाः पितरः इति सूत्रोपात्तक्रमस्यान्यथाकरणस्थानुचितत्वाच्च । ननु, अक्षव्योदकदाने स्वधावाचने च विशिष्य नान्दीमुखपदोपादानादितरत्र नान्दीमुखपदोल्लेखो नास्ति-इति गम्यते । अन्यथा इयोविशिष्योपादानमनर्थकं स्यात् । नैष दोषः । तस्यार्थवत्त्वोपपत्तेः । कथम् ? । वैकृतः खल्वमा विशेषोपदेशोऽक्षय्यस्थाने, दूति अत्र तावदेतत् वक्तव्यमेव । उच्यतां तर्हात्रैव, स्वधावाचने च 'नान्दीमुखेभ्यः'-दत्यनर्थक वचनम् ; नन्वस्मादेव वचनात् नान्दीमुखानां पितॄणां देवतात्वमनुमास्यते। उच्यते । खधावाचने यद्येतत् न पुनरुच्येत, न तत्र नान्दीमुखपदस्थोल्लेखोभवेत् । किं कारणम् ? । नान्दीमुखपदस्थ खल्ववचने, ' "पिढभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च खाहोच्यताम्" इत्येतावन्मात्र तत्रोच्येत। मोऽयं वैकृताविशेषोपदेशः स्यात्। तत्कथं नान्दीमुखपदमधिकं तत्र प्रयोच्यते । आनुमानिकं खल्वेतत् प्रयुयाक्षतम् ! प्रत्यक्षश्चोपदेशः । एतस्मात् कारणात् इयोविशिष्योपदेशोऽर्थवानेव भवति, न बनर्थकः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606