________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ का.]
श्राद्धकल्पः।
१०४५
क्रियेत तत्र विधेरनुमानात् प्राकृतधर्मलोपः स्यात्" इति। तस्मात् नान्दीमुखविशेषणविशिष्टानां पित्रादीनामत्र देवतात्वावगमात् चोदकप्राप्तं केवलानां पित्रादीनां देवतात्वं निवर्तते। तेनाभिलापे नान्दीमुख पितरित्यादिकं प्रयोज्यम् । भन्नेम्वपि, 'श्रावह नान्दीमखान् पिन्'-इति ‘एत नान्दीमुखाः पितरः' इति चैवमादिकं यथासम्भवमूहनीयम्। न चागन्तुकानामन्तेऽभिनिवेशः, इति न्यायात् पित्रादिनाम्नः परतानान्दीमुखपदमुल्लेखनीयमिति वाच्यम् । प्राकृतदेवतावाधेनात्रामीषां देवतात्वेनागन्तुकवाभावात् । नान्दीमुखाः पितरः इति सूत्रोपात्तक्रमस्यान्यथाकरणस्थानुचितत्वाच्च । ननु, अक्षव्योदकदाने स्वधावाचने च विशिष्य नान्दीमुखपदोपादानादितरत्र नान्दीमुखपदोल्लेखो नास्ति-इति गम्यते । अन्यथा इयोविशिष्योपादानमनर्थकं स्यात् । नैष दोषः । तस्यार्थवत्त्वोपपत्तेः । कथम् ? । वैकृतः खल्वमा विशेषोपदेशोऽक्षय्यस्थाने, दूति अत्र तावदेतत् वक्तव्यमेव । उच्यतां तर्हात्रैव, स्वधावाचने च 'नान्दीमुखेभ्यः'-दत्यनर्थक वचनम् ; नन्वस्मादेव वचनात् नान्दीमुखानां पितॄणां देवतात्वमनुमास्यते। उच्यते । खधावाचने यद्येतत् न पुनरुच्येत, न तत्र नान्दीमुखपदस्थोल्लेखोभवेत् । किं कारणम् ? । नान्दीमुखपदस्थ खल्ववचने, ' "पिढभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च खाहोच्यताम्" इत्येतावन्मात्र तत्रोच्येत। मोऽयं वैकृताविशेषोपदेशः स्यात्। तत्कथं नान्दीमुखपदमधिकं तत्र प्रयोच्यते । आनुमानिकं खल्वेतत् प्रयुयाक्षतम् ! प्रत्यक्षश्चोपदेशः । एतस्मात् कारणात् इयोविशिष्योपदेशोऽर्थवानेव भवति, न बनर्थकः ।
For Private and Personal Use Only