Book Title: Gobhil Gruhya Sutram
Author(s): Chandrakant Tarkalankar
Publisher: Calcutta Rajdhani

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०३६ [ ३ का. ] 1 1 प्रतिपादनम् । 'प्रेतपात्रं पितृपात्रेष्वा सिञ्चति' - इति वचनेन तस्यान्यथा प्रतिपादनोपदेशात् । सायं वैकृतोविशेषेोपदेशश्चोदक प्राप्तां प्रतिपत्तिं वाधते । तदत्र प्रत्यासेचनमन्त्रावावर्त्तते । तैौ हि गुणभावेनासेचनमुपकुर्व्वीते । गुणानाञ्च यावत् प्रधानमावृत्तिरित्यविवाद एव । श्रह | प्रेतपात्रपदं खल्वेतत् प्रेतपात्रस्योदकपरमित्यत्र न विवादः । तत्सामान्यात् पिढपाचपदेऽपि भवति तथा प्रतीतिः । भवति चेत्, न युज्यते विना कारणमुत्त्रष्टुम् । तस्मात् पितृपात्राणामुदकस्य प्रतिपादनात् प्रागेव तत्र प्रेतपात्रस्यासेचनमस्तु । नैतत् शक्यम् । किं कारणम् ? । श्रनुमानिकं तावत् पात्रस्यमुदकं परिचिकल्पयिषितम् । प्रत्यक्षन्तु पात्रमासेचनाधिकरणम् । पात्रपदं खल्वेतत् पात्रं वदति, न पात्रस्थमुदकम् । यदि तु तेन प्रयोजनं भवति, शक्नोति पात्रसम्बन्धं तत् खक्षयितुम् । श्रासेचनकत्वं तावत् पात्रस्य नोपपद्यते इति तत् सम्बन्धमुदकं - तेन लच्यते । श्रासेचनाधिकारणत्वन्तु पित्तपात्राणां न खल्वपि नोपपद्यते । येनैतदुदकं लक्षयेत्। श्रगतिः खल्वेषा यासा लक्षणा नाम । तस्मात् यथोक्तमेवास्तु । तदस्य प्रेतपाचस्यस्योदकस्य पात्रत्रयेष्वासेचनं विभागमन्तरेणानुपपद्यमानं चिधा विभागमेव तस्याक्षिपति, न पुनश्च तुद्धी । त्रिधा विभागस्या क्षेपेणैवानुपपत्तिनिरासेनाधिककल्पनानुपपत्तेः । येयमनुपपतिचतुधी विभागमाक्षिपति, इति मन्यसे, श्राचिपत्यमौ त्रिधापि विभागम् । तत्रैवं सति, चिधा विभागमाक्षिप्य चरितार्थं शास्त्रं न पुनरधिकमाक्षेतुमर्हति । तदत्र विभागे, ये समाना इति मन्त्रद्वयं न संभत्स्यते । कल्पितस्य मन्त्रसम्बन्धानुपपत्तेः । यत्तु शातातपवचनम्, - Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606