________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०३६
[ ३ का. ]
1
1
प्रतिपादनम् । 'प्रेतपात्रं पितृपात्रेष्वा सिञ्चति' - इति वचनेन तस्यान्यथा प्रतिपादनोपदेशात् । सायं वैकृतोविशेषेोपदेशश्चोदक प्राप्तां प्रतिपत्तिं वाधते । तदत्र प्रत्यासेचनमन्त्रावावर्त्तते । तैौ हि गुणभावेनासेचनमुपकुर्व्वीते । गुणानाञ्च यावत् प्रधानमावृत्तिरित्यविवाद एव । श्रह | प्रेतपात्रपदं खल्वेतत् प्रेतपात्रस्योदकपरमित्यत्र न विवादः । तत्सामान्यात् पिढपाचपदेऽपि भवति तथा प्रतीतिः । भवति चेत्, न युज्यते विना कारणमुत्त्रष्टुम् । तस्मात् पितृपात्राणामुदकस्य प्रतिपादनात् प्रागेव तत्र प्रेतपात्रस्यासेचनमस्तु । नैतत् शक्यम् । किं कारणम् ? । श्रनुमानिकं तावत् पात्रस्यमुदकं परिचिकल्पयिषितम् । प्रत्यक्षन्तु पात्रमासेचनाधिकरणम् । पात्रपदं खल्वेतत् पात्रं वदति, न पात्रस्थमुदकम् । यदि तु तेन प्रयोजनं भवति, शक्नोति पात्रसम्बन्धं तत् खक्षयितुम् । श्रासेचनकत्वं तावत् पात्रस्य नोपपद्यते इति तत् सम्बन्धमुदकं - तेन लच्यते । श्रासेचनाधिकारणत्वन्तु पित्तपात्राणां न खल्वपि नोपपद्यते । येनैतदुदकं लक्षयेत्। श्रगतिः खल्वेषा यासा लक्षणा नाम । तस्मात् यथोक्तमेवास्तु । तदस्य प्रेतपाचस्यस्योदकस्य पात्रत्रयेष्वासेचनं विभागमन्तरेणानुपपद्यमानं चिधा विभागमेव तस्याक्षिपति, न पुनश्च तुद्धी । त्रिधा विभागस्या क्षेपेणैवानुपपत्तिनिरासेनाधिककल्पनानुपपत्तेः । येयमनुपपतिचतुधी विभागमाक्षिपति, इति मन्यसे, श्राचिपत्यमौ त्रिधापि विभागम् । तत्रैवं सति, चिधा विभागमाक्षिप्य चरितार्थं शास्त्रं न पुनरधिकमाक्षेतुमर्हति । तदत्र विभागे, ये समाना इति मन्त्रद्वयं न संभत्स्यते । कल्पितस्य मन्त्रसम्बन्धानुपपत्तेः । यत्तु शातातपवचनम्, -
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
For Private and Personal Use Only