________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ का.]
श्राद्धकल्पः।
प्रेतपात्रं पितृपावासिञ्चति,-ये समानाः समनसः पितरोयमराज्ये तेषां लेोकः स्वधा नमो यज्ञोदेवेषु कल्यतां । ये समानाः समनसेाजीवा जीवेषु मामकास्तेषां श्रीमयि कल्पतामस्मिन् लाके शतं समाइति ॥ १६ ॥
प्रेतपात्रं प्रेतपात्रम्थमुदकं पित्पात्रेषु श्रामिञ्चति-ये समानाइति मन्त्रद्वयेन । अत्र किञ्चिद्वक्रव्यमस्ति । पाठक्रमानुरोधात् पदार्थानुशयेन पिढणामय॑मुत्सृज्य प्रेतस्यार्थ्यमुत्स्रष्टव्यम्। ततः पितृणामयंपात्रस्थानि पवित्राणि पिढब्राह्मणेभ्यः प्रतिपाद्य, प्रेतार्यपात्रस्थमपि पवित्रं तद्ब्राह्मणाय प्रतिपादनीयम्। अथ पिचर्यपात्रस्थमुदकं पिटब्राह्मणेभ्यः प्रतिपाद्य, प्रेतार्थपात्रस्थमुदकं त्रिधा विभज्य तेषामेकैकं भागं ये समाना इत्यादिमन्त्रदयेन प्रत्येकं पिटपात्रेषु सिञ्चेत्। कुतः ?। “आगन्तुकानामन्तेऽभिनिवेशः” इति न्यायात् । आसेचनञ्चोपदिशन् प्रेतार्यपात्रस्थं पवित्रं तद्ब्राह्मणय प्रतिपाद्य उदकमात्रस्य पित्पात्रेषु प्रक्षेपं ज्ञापयति। कथं कृत्वा ?। उदकमात्रस्यैव खल्वासेचनं सम्भवति न पवित्रस्य । ‘एकैकस्मिन्नप भासिञ्चति'-दूति पूर्वबाप्याप एवासेचनकर्मतया श्रूयन्ते। इदानीमप्यामेचने सूत्रिते आपएव हृदयमागच्छन्ति । तस्मादियमेवावधारण,प्रेतार्थपात्रीयं पवित्रमात्रं तद्ब्राह्मणाय प्रतिपाद्य तदुदकं पिटपात्रेव्वा सेक्तव्यम्, अथेदानी चोदकप्राप्तं संस्रवसमवनयनादिकं करणीयम्, इति । प्रेतपात्रस्थस्य तिलोदकस्य तु न भवति ब्राह्मणाय
For Private and Personal Use Only