Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 155
________________ द्वादश स्येत्यत आह- 'मार्गानुसारिणः सम्यग्ज्ञानादिसत्पथचारिणो, न तु अभिनिवेशभाजः, तथा 'प्रकृत्यैव' स्वभावेनैव उपदेशमकुलकम् । न्तरेणापि 'शुद्धचित्तस्य' मिथ्यात्वकषायाद्यदूषितमनसः, तथा 'गीतार्थाः' शुद्धसिद्धान्तचारिणः तेषामाज्ञा प्रवर्त्तकं वाक्यं * तत्र रुचिरभिलाषो यस्य स तथा तस्य तुधा 'प्रज्ञापनीयस्य' अनाभोगादिना कथंचिदन्यथा प्रवृत्तावपि सुखसंबोध्यस्य, तथा चोक्तं- "भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापना प्रियात्यर्थं न पुनः स्वाग्रहात्मिका ॥१॥" तथा 'श्राद्धस्य' सद्गु रूपदिष्टभावश्रद्धानवतः, एवं गुणवत एव तत्त्वतो भावशुद्धिः तीर्थकरात्यन्तभक्तिश्च शेषस्य तु आज्ञाविराधकत्वेन व्यवहारिकभक्तिमतोऽपि तत्त्वत्तो मिथ्यादृष्टित्वात् तथा चोच्यते- 'जो जहघावं न कुम मिच्छद्दिकी तओ हु को अन्नो । वडेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ १ ॥ " इति गाथार्थः ॥ ३० ॥ ॥ ७१ ॥ तद्विपरीतस्य तु तत्त्वतो भावशुद्ध्यभावमाह - | इयरस्स उ समइकया कुग्गहरूवा य सा अणिट्ठफला । मिच्छत्तओ चिय फुडं जियाण जं कुग्गहो होइ ३१ व्याख्या- 'इतरस्य तु' सम्यग्ज्ञानादिविकलस्य. 'स्वमतिकृता' आत्मीयविकल्पमात्र निर्मिता, न पुनरागमानुसारिणी सा शक्रस्तवादिपाठमात्ररूपचैत्यवन्दनादिक्रिया निमित्ता भावशुद्धिः कीदृशी सा ? इत्याह- 'कुमहरूपा च चशब्दस्यावधारणार्थत्वात् केवलाभिनिवेशस्वरूपैव यतो जीवाभिगमादौ विजयदेवादीनां महाप्रमादवतां शक्रस्तवेन चैत्यवन्दनाश्रुतेः, श्रावकाणामपि तथाविधानकल्पनं स्वमत्या क्रियते तैर्न पुनः सिद्धान्ते क्वापि तन्मात्रमेव श्राद्धानां युक्तमित्युक्तमस्ति, ततश्च 'अनिष्टफला' | दुर्गतिप्रापणविपाकैव, किमित्येवमित्याह - 'मिथ्यात्वादेव' मोहनीयात्यन्तदुष्टप्रकृतेरेव, 'स्फुटं' निश्चितं, 'जीवानां' प्राणिनां 142 अष्टम कुलकम् । ॥ ७१ ॥

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228