________________
द्वादश
स्येत्यत आह- 'मार्गानुसारिणः सम्यग्ज्ञानादिसत्पथचारिणो, न तु अभिनिवेशभाजः, तथा 'प्रकृत्यैव' स्वभावेनैव उपदेशमकुलकम् । न्तरेणापि 'शुद्धचित्तस्य' मिथ्यात्वकषायाद्यदूषितमनसः, तथा 'गीतार्थाः' शुद्धसिद्धान्तचारिणः तेषामाज्ञा प्रवर्त्तकं वाक्यं * तत्र रुचिरभिलाषो यस्य स तथा तस्य तुधा 'प्रज्ञापनीयस्य' अनाभोगादिना कथंचिदन्यथा प्रवृत्तावपि सुखसंबोध्यस्य, तथा चोक्तं- "भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापना प्रियात्यर्थं न पुनः स्वाग्रहात्मिका ॥१॥" तथा 'श्राद्धस्य' सद्गु रूपदिष्टभावश्रद्धानवतः, एवं गुणवत एव तत्त्वतो भावशुद्धिः तीर्थकरात्यन्तभक्तिश्च शेषस्य तु आज्ञाविराधकत्वेन व्यवहारिकभक्तिमतोऽपि तत्त्वत्तो मिथ्यादृष्टित्वात् तथा चोच्यते- 'जो जहघावं न कुम मिच्छद्दिकी तओ हु को अन्नो । वडेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ १ ॥ " इति गाथार्थः ॥ ३० ॥
॥ ७१ ॥
तद्विपरीतस्य तु तत्त्वतो भावशुद्ध्यभावमाह -
| इयरस्स उ समइकया कुग्गहरूवा य सा अणिट्ठफला । मिच्छत्तओ चिय फुडं जियाण जं कुग्गहो होइ ३१ व्याख्या- 'इतरस्य तु' सम्यग्ज्ञानादिविकलस्य. 'स्वमतिकृता' आत्मीयविकल्पमात्र निर्मिता, न पुनरागमानुसारिणी सा शक्रस्तवादिपाठमात्ररूपचैत्यवन्दनादिक्रिया निमित्ता भावशुद्धिः कीदृशी सा ? इत्याह- 'कुमहरूपा च चशब्दस्यावधारणार्थत्वात् केवलाभिनिवेशस्वरूपैव यतो जीवाभिगमादौ विजयदेवादीनां महाप्रमादवतां शक्रस्तवेन चैत्यवन्दनाश्रुतेः, श्रावकाणामपि तथाविधानकल्पनं स्वमत्या क्रियते तैर्न पुनः सिद्धान्ते क्वापि तन्मात्रमेव श्राद्धानां युक्तमित्युक्तमस्ति, ततश्च 'अनिष्टफला' | दुर्गतिप्रापणविपाकैव, किमित्येवमित्याह - 'मिथ्यात्वादेव' मोहनीयात्यन्तदुष्टप्रकृतेरेव, 'स्फुटं' निश्चितं, 'जीवानां' प्राणिनां
142
अष्टम
कुलकम् ।
॥ ७१ ॥