SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 'यद्' यस्मात् कारणात् 'कुग्रहो'ऽभिनिवेशो भवति, ततोऽयमपि कुग्रह इत्यवश्यमनिष्टफलैव इति भाव इति गाथार्थः ॥ ३१ ॥ अथोपसंहरन्नुपदेश सर्वस्वमाह ता रागचागकुग्गहनिगहपुत्रं तहा पयइयवं । जह लोएऽणुवहासं गुणवल्ली लहइ उहासं ॥ ३२ ॥ व्याख्या - यतो भावशुद्धयैव क्रियमाणं शुभानुष्ठानं फलवद् भवति, 'तत्' तस्मात् कारणात् तथा प्रयतितव्यं, यथा गुणवल्ली लभते उल्लासमिति योगः, कथं यतितव्यमित्याह - रागोऽस्मत्पूर्वजैः इदमित्थमुपदर्शितमिति वितथानुष्ठानेऽपि गाढः प्रतिबन्धः तस्य 'त्यागः' परिहारः, तथा कुग्रहः पूर्वोक्तः शक्रस्तवमात्र चैत्यवन्दनाभिनिवेशादिः तस्य 'निग्रहः सर्वधा प्रतिषेधः, ततश्च रागत्यागश्च कुग्रहनिग्रहक्षेत्र दस्तौति याविशेषणं चैतत् कुग्रहवद् रागस्यापि भावशुद्धि दूपकत्वमिति उपसंहारे रागत्यागोऽपि उपदर्शितः, तथेति तेन भवाभिनन्दिजनोत्सूत्रप्रवृत्तिर्वैमुख्य प्रकारेण प्रक वेणातिशयेन 'यतितव्यं' शुभानुष्ठाने प्रवर्त्तितव्यं, यथा येन सुयल प्रवर्त्तनप्रकारेण 'लोके' शिष्टजनेऽनुपहासम् उत्प्रासाभाववद् यथा भवति एवं, 'गुणवलीति' सम्यक्त्वादिगुणा एव प्रतिदिन प्रवर्द्धनसाम्यात् वल्ली लता, सा लभते समासादयति, 'उल्लासं' विस्तारम् अयमभिप्रायः श्रुतोपदर्शितनीत्या चैत्यवन्दनवन्दनकादौ प्रवर्त्तमानानां लोके लोकोत्तरे च प्रशंसनीयता धर्मश्च भवति, तद्वैपरीत्येन च जातमृतकसूत का परिहाररजस्वलादेवगृहगमनादिप्रवृत्ति-लोकोपहासायाधर्माय च भवति, न च लोकोत्तरमार्गस्थितानामस्मदादीनां किं लौकिकशुद्ध्यपेक्षयेति वाच्यं यत उक्तमागमे - " लोउत्तरम्मि य ठिया न लोयनिवाहिरत्तमिच्छति । लोयजढे परिहरया तित्थविवही य विनेया ॥ १ ॥" तथा साध्वपेक्षयाप्युक्तम्- ''अयसो 143
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy