SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नकमित्यादिः, स खलु निश्चयेन न क्षमो न युक्तः 'कल्याणकामानां शुभार्थिनां शिवार्थिनां वा, अपि तु संसाराभिनन्दिनामिति गाथार्थः ॥ २८ ॥ यद्येवमाभिनिवेशिकी प्रवृत्तिरनर्थाय तर्हि कथं प्रवर्त्तयितव्यमित्यत आह किं तु भववासणासणहेऊ जिणसासणं पिहू लहेउं । तत्थ न्नत्थ य सम्मं जइयवं भावसुद्धीए ॥ २९ ॥ व्याख्या- ' किन्तु' इति पूर्वस्माद् व्यतिरेकार्थः तेन नाभिनिवेशेन प्रवर्त्तयितव्यं शुभानुष्ठानेऽपि किं तु प्रत्युत 'जिनशासनं' तीर्थकरप्रवचनम् । अपिः भिन्नक्रमः, तेन लब्ध्वा प्राप्यापि भावशुद्ध्या यतितव्यमिति सम्बन्धः कीदृशः (शं) १ 'भववासनाशनहेतुं' संसारावस्थितिध्वंसकारणं, न हि ततोऽपि अन्यत्कुप्रवचनादिकं संसारच्छेदहेतुरिति भावः । 'तत्रेति' शुभानुष्ठाने वन्दनकाद 'अन्यत्र च' विशुद्धवेशवचनादौ, 'यतितव्यं' यसेन प्रवृत्तिः कार्या, कयेत्याह- 'भावस्य' परिणामस्य शुद्धिर्निर्म लता तया न पुनरभिनिवेशादिदूषितया, भावशुद्धिमन्तरेण सर्वस्यापि अनर्थकत्वादिति भाव इति गाथार्थः ॥ २९ ॥ ननु ये शक्रस्तवपाठमात्रेण चैत्यवन्दनादिकमिच्छन्ति तेऽपि तीर्थकरभक्त्यतिशयेन भावशुद्धिमन्त एव तत् किं सापि भावशुद्धिस्तात्त्विकी नेत्याह सा पुण नेया मग्गानुसारिणो पयइसुद्धचित्तस्स । गीयत्थाणारुइणो पन्नवणिज्जस्स सद्धस्स ॥ ३० ॥ व्याख्या-भावश्शुद्ध्या शुभानुष्ठाने यवितव्यमित्युक्तं, सा पुनर्भावशुद्धिश्चित्तनिर्मलता 'ज्ञेया' ज्ञातव्या, कीदृशस्य पुरुष 141
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy