Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पर्णभवार्णवमन्जनं । हेयमभिधाय उपादेयमाह-'सरत' अनुगच्छत भोः श्राद्धाः ? 'सरभर्स' सोत्कण्ठं, हंभो इति तु पाठे,
सरत सरतेति द्विरुच्चारणमत्यादरख्यापनार्थ, हंभो! इति तु संबोधने, किमित्याह-'सर्वसत्त्वेषु' समस्तप्राणिषु 'मैत्री' सौहार्द, ४ान कापि चैरानुबन्धमित्यर्थः, तथा 'कुरुत' विधत्त किमित्याह-पादपूजाप्रसक्तिं' चरणाराधनानुबन्ध, केषामित्याह 'जिनगुहै रूपां' तीर्थकदाचार्याणां, तत्पूजाया एव सकलकल्याणनिवन्धनत्वादिति वृत्तार्थः ॥ ४ ॥
मैत्रीमभिधाय गुणवत्प्रमोदकरुणे पाह--- पयडह वहुदुक्खत्तेसु सत्तेसु दूरं, परमकरुणभावं दवओ भावओ य ।
भयह गुणिसु राग सबकल्लाणवल्ली-पसरसरसनीरासारमच्चंतसारं ॥ ५॥ व्याख्या-'प्रकटयत' विधानेन प्रकाशयत 'बहुदुःखार्तेषु प्रभूतबाधापीडितेषु प्राणिविति गम्यते, 'दूरम्' अतिशयेन, किमित्याह-'परमकरुणभावं' प्रकृष्टदयासद्भावं, कथमित्याह-'द्रव्यतो' बाह्यवृत्त्या, यथा क्वचित् प्राणिनि प्राणघनाद्यपहारे विधीयमाने सर्वथा तद्भयनिवारणं, 'भावतश्च' अन्तर्वृत्त्या, यथा कथमेते प्राणिनः सर्वथा दुःखाद् मया मोचनीया इत्यध्यवसायः तथा चोच्यते,-"सम्मदिछी जीवो अणुकंपपरो सया वि जीवाणं भाविदुहविप्पओगे ताण गणितो विचिंतेइत्ति" ॥१॥ तदेवमुभयथाऽपि करुणां कुरुतेति, तथा 'भजत' आश्रयत किमित्याह-'गुणिषु' ज्ञानादिमत्सु आचार्यादिषु राग' 1 मूलगाथार्या 'सत्तेसु-सत्वेषु इति सत्यपि “प्राणिष्विति गम्यते" इति टीकापाटग्रिन्त्यः ।
195

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228