Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 204
________________ समाराधिलच, न केवलमभाजि दध्ये च, "स्मृध्यै चिन्तायामिति” वचनात् ,ध्यातश्च, परमात्मनि एय सम्यगाराधनाय निरहन्तरमनुचिन्तितः, किं कृत्वा ? विधाय विरचय 'अञ्जलिं' कर कुमालयोजनरूपम् , एपोऽप्याराधनप्रकारविशेष एव, ततः कुत्र किं संवृत्तमित्याह-'घोरे' अत्यन्तरौद्रे अर्थात् संसारे, इत्यपि एवमप्याराधनं 'वृथा निरर्थकमभूत् सम्पन्नम् , एतच्च व्यक्त । स्पष्टम् 'अयुक्तम्' असंगतमेव, न हि कल्पितार्थप्रद एवं समाराधितश्च कदाचित् कल्पितार्थदानदरिद्रः संभाव्यते, ननु कथं तर्हि साएतदेवं सम्पन्नमित्याह-इत्युक्तेन न्यायेन 'अचिन्त्योऽचिन्तनीयप्रवृत्तिप्रकारोऽयं विधिः दैवं पुराकृतकर्मलक्षणमिति विषा-16 दवचनं ग्रन्थकर्त्तः, अप्रस्तुतप्रशंसा चेयं कल्पतरुवक्तव्यतारूपा, तेनायमर्थः-अस्माभिस्तावद् जन्मान्तरीयात्युत्कटसुकृतपटलवशासादितसकलगुणसद्गुरुसंपादिना प्राप्तः प्रभूतभव्यसंभाव्यमानानुग्रहदक्षः सद्वचनपाटवकल्पवृक्षः, स चानुध्यातो | निरन्तरं भव्यजनप्रतिबोधकाम्यया सेवितश्च अनेकधा सदुपदेशव्यापारणेन अञ्जलि विधानस्थानीयं चेह कोमलामन्त्र णादिकं द्रष्टव्यम् , एवमतिप्रयत्नेन सेवितोऽपि स्ववचनपाटवकल्पवृक्षः श्राद्धानामुत्तरोत्तरगुणप्रकर्षेण सर्वविरतिप्रतिपत्ति ४ चावद् यदा न फलितः तदा नूनम् अस्माकमेवायं विधिः प्रतिकूल इति, परं युष्माभिर्विशेषतो धर्मकर्मसु समुद्यमो विधेय? एव, यतो विधेरचिन्तनीयत्वेनेदं सूच्यते-यथा क्वचित् तस्य प्रतिकूलप्रवृत्तिः तथा कचिदनुकूलत्वेनापि, इत्युपदेश इति शार्दूलविक्रीडितवृत्तार्थः॥ ११॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ दशमकुलकविवरणं समाप्तमिति॥१०॥ HERS REAMSAXRA 191

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228