SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ समाराधिलच, न केवलमभाजि दध्ये च, "स्मृध्यै चिन्तायामिति” वचनात् ,ध्यातश्च, परमात्मनि एय सम्यगाराधनाय निरहन्तरमनुचिन्तितः, किं कृत्वा ? विधाय विरचय 'अञ्जलिं' कर कुमालयोजनरूपम् , एपोऽप्याराधनप्रकारविशेष एव, ततः कुत्र किं संवृत्तमित्याह-'घोरे' अत्यन्तरौद्रे अर्थात् संसारे, इत्यपि एवमप्याराधनं 'वृथा निरर्थकमभूत् सम्पन्नम् , एतच्च व्यक्त । स्पष्टम् 'अयुक्तम्' असंगतमेव, न हि कल्पितार्थप्रद एवं समाराधितश्च कदाचित् कल्पितार्थदानदरिद्रः संभाव्यते, ननु कथं तर्हि साएतदेवं सम्पन्नमित्याह-इत्युक्तेन न्यायेन 'अचिन्त्योऽचिन्तनीयप्रवृत्तिप्रकारोऽयं विधिः दैवं पुराकृतकर्मलक्षणमिति विषा-16 दवचनं ग्रन्थकर्त्तः, अप्रस्तुतप्रशंसा चेयं कल्पतरुवक्तव्यतारूपा, तेनायमर्थः-अस्माभिस्तावद् जन्मान्तरीयात्युत्कटसुकृतपटलवशासादितसकलगुणसद्गुरुसंपादिना प्राप्तः प्रभूतभव्यसंभाव्यमानानुग्रहदक्षः सद्वचनपाटवकल्पवृक्षः, स चानुध्यातो | निरन्तरं भव्यजनप्रतिबोधकाम्यया सेवितश्च अनेकधा सदुपदेशव्यापारणेन अञ्जलि विधानस्थानीयं चेह कोमलामन्त्र णादिकं द्रष्टव्यम् , एवमतिप्रयत्नेन सेवितोऽपि स्ववचनपाटवकल्पवृक्षः श्राद्धानामुत्तरोत्तरगुणप्रकर्षेण सर्वविरतिप्रतिपत्ति ४ चावद् यदा न फलितः तदा नूनम् अस्माकमेवायं विधिः प्रतिकूल इति, परं युष्माभिर्विशेषतो धर्मकर्मसु समुद्यमो विधेय? एव, यतो विधेरचिन्तनीयत्वेनेदं सूच्यते-यथा क्वचित् तस्य प्रतिकूलप्रवृत्तिः तथा कचिदनुकूलत्वेनापि, इत्युपदेश इति शार्दूलविक्रीडितवृत्तार्थः॥ ११॥ इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ दशमकुलकविवरणं समाप्तमिति॥१०॥ HERS REAMSAXRA 191
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy