Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 190
________________ | विपरीतमस्माकं संवृत्तमित्याह-'नवा' अपूर्वा अपूर्वा ये 'सुविहिताः' सुविहितमन्या न पुनः परमार्थतः सुविहिता एव, तेषां 'सेवा' समासन्नावस्था विनयादिरूपपर्युपासना, तस्याम् 'आसक्ता' अत्यन्तमादरवन्तः तेषाम् , अत्र षष्ठीबहुवचनलोपो द्रष्टव्यः, तथा 'तत्त्वार्थिनां' सद्गुरुसद्धर्मज्ञानाभिलाषुकाणां, कथं केन प्रकारेण दुष्टकर्मोदयरूपेण इति तत्त्वप्राप्तिप्रकारेण, क्वचित् कथ-४ मिवेति पाठः, स च सुगम एव, विपरीतं संशयोच्छेदाय प्रवृत्ताना-मधिकतरसंशयहेतुत्वेन विपर्यास्त 'जात' सम्पन्न, 'अबोल इति प्राकृते अहो इत्यर्थे सम्बोधनं, ततश्चात्यन्तविषण्णा इव तत्त्वार्थिनश्चिन्तयन्ति कथयन्ति च-अहो लोकाः! पश्यत अस्मदीयां कर्मपरिणति येनेद-मित्थं सम्पन्नम् 'इदानीं सांप्रतम् , अयममिप्रायः-नवनवप्रभुपर्युपासने हि तेषु कश्चित् प्रतिमायाः पुष्पधूपनैवेद्यदुग्धदधिघृतेक्षुरसादिस्नात्रं श्राद्धस्य विधेयमाह, अपरस्तु तस्य सर्वथा निषेध, कश्चिच्च प्रतिमादेराचार्येण प्रतिष्ठाम्-अपरस्तु श्राद्धेन, कश्चित् शक्रस्तवादिदण्डकपञ्चकेन स्तुतिस्तोत्रश्चैत्यवन्दनम् , अन्यस्तु शकस्तवमात्रेण, द्वादशावर्त्तवन्दनकमपि श्राद्धस्य कश्चिन्मुखबस्त्रिकया, कोऽपि चेलाञ्चलेन, श्राद्धादेरुभयकाल-मावश्यकविधानम् इतरश्च तन्निषेधमित्यादेः प्रभूताचार्यमतस्य श्रुतौ न कृत्यत्वाभिगमः सम्यगभूत् , प्रत्युत किमिदं कृत्यमुतान्यत् , किं वा ततोऽप्यन्यदिति संदेहशताकुलत्वमेवाजायत, तेनोकं विपरीतं जातमिति वृत्तार्थः ।। २५॥ तदेवं प्रभूतमार्गाभासानुपदर्य संप्रति उपसंहरन सन्मार्गनिष्ठत्वभवनोपदेशमाह इयकुपहपयारं सुद्धधम्मंधयारं, परिलसिरमसारं छड्डि निम्वियारं । सइ अणभिनिविट्ठा सुत्तजुत्तीविसिट्टा, गयभयमयतिट्ठा होह सम्मग्गनिट्ठा ॥ २६ ॥ 177

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228