Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वादशकुलकम् ।
॥ ९४ ॥
कर्मधारयः, तानि च तानि 'नानाकुशास्त्राणि' चानेकसिद्धान्ताः तैः मदोऽहंकारः तेन 'मूढा' विचित्ततां प्रापिताः, अथवा तादृशानि शास्त्राणि येषां तानि मतानि दर्शनानि तैर्मूढा इति पूर्ववत्, ते च ते 'कुतीर्थिकाश्च' शाक्य - सांख्य- नैयायिकवैशेषिक-मीमांसकादयोऽन्य दर्शनिनः तेषां । किमित्याह - 'दुवासनाविनदिता' निरन्तरं तच्छाखश्रवणानुचिन्तनकुसंस्कारेण विगोपिताः तथाहि - शाक्याः तावत् सर्व क्षणिकमेवाहुः, सांख्यास्तु गुणत्रयात्मक प्रकृतिविकारभूतं परस्परेणार्मित्रं सर्वमुदासीन पुरुषकल्पितं च जगदिति, नैयायिकवैशेषिकौ तु गुणगुणिनोः अत्यन्तभेदमेव, मीमांसकास्तु तयोर्भेदाभेदं सर्वज्ञाभावं चेति, सर्वत्र चात्र मिध्यात्वगर्भत्वमेकान्तवादित्वेनैव, क्षणिकत्वस्य प्रकृत्यादीनां च स्वोत्प्रेक्षितत्वमेव, सर्वथा तंत्र प्रमाणाभावाद्, यथा चैतदेवं तथा संमत्यादेः ग्रन्थाद् बोद्धव्यं, गुणगुणिनोः अत्यन्तभेदस्तु प्रत्यक्षविरोधात् निरसनीयः, किं च अत्यन्तभेदे नैयायिकाद्यभिमते सांख्याभिमतेऽत्यन्तभेदे चानुमानाङ्गव्याप्तेरेवाग्रहः, तथा चोक्तम् अनेकान्तजयेपताकायाम् - "नान्योऽन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गाचैक्याच शब्दार्थानुपपतितः ॥ १॥ अन्योऽन्यमिति यद्भेदं व्याप्तिश्चाह विपर्य्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः ॥ २ ॥” इति, सर्वज्ञाभावे तु शिवस्वर्गमार्गादी | सर्वत्रान्धत्वमापद्येत, तस्मादेवं स्वोत्प्रेक्षितत्वं युतिहीनत्वं च तच्छास्त्रार्थानामित्येवंविधेषु अपि तेषु जीवानां दुर्गासना निरं| कुशाः कर्मवशगानां संपद्यन्ते, तेन तद्वासनाविनटिता इत्युक्तं, न केवलं विनटिताः 'पतिता' अवस्थिताश्च, केत्याह-दशे आयत्तताय, सामर्थ्यादेव तेपां कुतीर्थिकानामेव, 'हीति' खेदे, 'जीवाः' प्राणिनः कदाचित् कापि काले, 'न भवन्ति' न संपद्यन्ते कीदृशाः ? 'भवान्तगामिनः' संसारपर्यन्तमापका इति वृत्तार्थः ॥ ९ ॥
188
مات عامة
कुलकम् । १०

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228