________________
| विपरीतमस्माकं संवृत्तमित्याह-'नवा' अपूर्वा अपूर्वा ये 'सुविहिताः' सुविहितमन्या न पुनः परमार्थतः सुविहिता एव, तेषां 'सेवा' समासन्नावस्था विनयादिरूपपर्युपासना, तस्याम् 'आसक्ता' अत्यन्तमादरवन्तः तेषाम् , अत्र षष्ठीबहुवचनलोपो द्रष्टव्यः, तथा 'तत्त्वार्थिनां' सद्गुरुसद्धर्मज्ञानाभिलाषुकाणां, कथं केन प्रकारेण दुष्टकर्मोदयरूपेण इति तत्त्वप्राप्तिप्रकारेण, क्वचित् कथ-४ मिवेति पाठः, स च सुगम एव, विपरीतं संशयोच्छेदाय प्रवृत्ताना-मधिकतरसंशयहेतुत्वेन विपर्यास्त 'जात' सम्पन्न, 'अबोल इति प्राकृते अहो इत्यर्थे सम्बोधनं, ततश्चात्यन्तविषण्णा इव तत्त्वार्थिनश्चिन्तयन्ति कथयन्ति च-अहो लोकाः! पश्यत अस्मदीयां कर्मपरिणति येनेद-मित्थं सम्पन्नम् 'इदानीं सांप्रतम् , अयममिप्रायः-नवनवप्रभुपर्युपासने हि तेषु कश्चित् प्रतिमायाः पुष्पधूपनैवेद्यदुग्धदधिघृतेक्षुरसादिस्नात्रं श्राद्धस्य विधेयमाह, अपरस्तु तस्य सर्वथा निषेध, कश्चिच्च प्रतिमादेराचार्येण प्रतिष्ठाम्-अपरस्तु श्राद्धेन, कश्चित् शक्रस्तवादिदण्डकपञ्चकेन स्तुतिस्तोत्रश्चैत्यवन्दनम् , अन्यस्तु शकस्तवमात्रेण, द्वादशावर्त्तवन्दनकमपि श्राद्धस्य कश्चिन्मुखबस्त्रिकया, कोऽपि चेलाञ्चलेन, श्राद्धादेरुभयकाल-मावश्यकविधानम् इतरश्च तन्निषेधमित्यादेः प्रभूताचार्यमतस्य श्रुतौ न कृत्यत्वाभिगमः सम्यगभूत् , प्रत्युत किमिदं कृत्यमुतान्यत् , किं वा ततोऽप्यन्यदिति संदेहशताकुलत्वमेवाजायत, तेनोकं विपरीतं जातमिति वृत्तार्थः ।। २५॥ तदेवं प्रभूतमार्गाभासानुपदर्य संप्रति उपसंहरन सन्मार्गनिष्ठत्वभवनोपदेशमाह
इयकुपहपयारं सुद्धधम्मंधयारं, परिलसिरमसारं छड्डि निम्वियारं । सइ अणभिनिविट्ठा सुत्तजुत्तीविसिट्टा, गयभयमयतिट्ठा होह सम्मग्गनिट्ठा ॥ २६ ॥
177