________________
नवमं
द्वादशकुलकम् ।
व्याख्या-इति कुपथप्रचारं त्यक्त्वा यूयं सन्मार्गनिष्ठा भवतेति योगः, इति' पूर्वोक्तप्रकारा ये 'कुपथा' सूत्रोत्तीर्णवेन कुमार्गा लिङ्गिकल्पितस्वकल्पितसामाचारीचारित्रादिलक्षणाः, तेषु प्रचारः' प्रवर्तनं 'छडिउंति' त्यक्त्वा, एतत् त्यागे हिं सम्यक सन्मार्गनिष्ठत्वमिति भावः, किंविशिष्टं ? 'शुद्धधर्मस्य आगमगीतार्थाचरणरूपस्य विधिविधीयमानानुष्ठानस्य अन्धकारमिवान्ध-5 कारं तदाच्छादकत्वात् , कुलिङ्गिप्रभृतिप्रवर्तितमार्गे हि प्रसरति सति व शुद्धधर्मप्रचारः? इति भावः, पुनः कीदृशं ? 'परिलसिरम्' अत्यन्तोल्लसनशीलं, केनापि अस्खलितत्वात् , तथा 'निर्विचारम्' आगमानुसारिविचारविकलम् , अत एवासारं तुच्छम् , अप्रधानं वा, कुपचमचारं त्यक्त्वा कोहशा कि फुरुतत्याह--नवत संपधध्वं, कीदृशाः? सन्मार्गनिष्ठाः सन्मार्गे प्रतिश्रोतोरूपविशुद्धविधिपथे निष्ठा निश्चलमनस्कतयाऽवस्थानं येषां ते तथा, कीदृशाः सन्त ? इत्याह-'सकृत्' सर्वदा 'अनभिनिविष्टा आग्रहरहिताः तथा 'सूत्रयुक्त्या' श्रुतोपपस्या "विशिष्टा' अनुरजिताः सर्वमपि अनुष्ठानं श्रुतोक्त्यनुसारि अभिनिवेशरहित च क्रियमाणं सफलं भवतीति उभयविशेषणविशिष्टत्वोपादानं, तथा तिहाशब्दो देशीभाषया कार्पण्ये, ततश्च 'गतभयमद-5 कार्पण्यविशेषा' निवृत्ताहकारत्रासकार्पण्याः, संभवति हि विधिधर्ममार्गप्रवृत्ती भिन्नधर्मजनकादिभयं कदाथिदितरेभ्योऽहमुत्कृष्ट इति मदश्च, दानादिप्रवर्त्तने च कार्पण्यमिति, ते च विधिधर्ममार्गप्रवृत्तौ वर्जनीया एव, तद्वर्जन एवं सम्यग निःशंकविधिधर्मनिहादिति भाव इति वृत्तार्थः ॥ २६ ॥ सर्वत्र चात्र कुलके मालिनीवृत्तमेवेति शुभम् ।।
- इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ नवमकुलकविवरणं समासम् ॥
॥८
178