Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
सव्वेसु पणिदितिरिय
विगल-पर्णिदि-तसकšय-मण-वयसुं ।
बायरसमत्त-भू-दग
पत्तेअवणेसु विक्कियदुजोगेसुं ॥४॥
थी - पुरिस - विभंग - यण
सुहलेसतिगेसु तह य सण्णम्मि । पयर असंखंसडिअ
सेंढिगयपरसतुल्लाऽत्थि ॥५ ॥
'सेसणिरये' त्यादि, शेषेषु द्वितीयादिपृथिवीभेदभिन्नेषु षट्षु निरयेषु तृतीयादिषु सनत्कुमार- माहेन्द्र - ब्रह्म-लान्तक - शुक्र- सहस्राराख्येषु षट्षु कल्पेषु, 'नर' त्ति मनुष्यगत्योघे, अपर्याप्तमनुष्ये चेत्येवं चतुर्दशमार्गणास्थानेषु प्रत्येकं 'सेढिअसंखंसो' त्ति सप्तरज्ज्वायताया एकप्रादेशिक्याः श्रेणे: 'असंख्यांश: ' - असंख्य भागगताकाशप्रदेशैः परिमिता जीवाः सन्तीत्यर्थः ।
'सुरवंतरे 'त्यादि, देवगत्योघे, व्यन्तरसुर - ज्योतिष्कसुरयोः, सर्वेष्वोघ-पर्याप्ताऽपर्याप्तातिरश्चीभेदभिन्नेषु पञ्चेन्द्रियतिर्यग्भेदेषु सर्वेष्वोघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु 'विकल' त्ति द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियास्तेषामेकैकस्य त्रिषु त्रिषु भेदेषु, तथैव सर्वेषु त्रिसंख्याकेषु पञ्चेन्द्रियजातिभेदेषु सर्वेषु त्रिसंख्याकेषु त्रसकायभेदेषु सर्वेष्वोधोत्तरभेदभिन्नेषु पञ्चसु मनोयोगभेदेषु तथैव पञ्चसु वचोयोगभेदेषु, तथा 'बायरसमत्ते' त्यादि तत्र समाप्तशब्दः पर्याप्तवाची, ततो बादरपर्याप्तपृथिवीकायाऽप्काययोः, बादरपर्याप्तप्रत्येकवनस्पतिकाये, वैक्रियतन्मिश्रयोगलक्षणयोर्द्वयोर्योगयोः, स्त्रीवेद-पुरुषवेद-विभङ्गज्ञानेषु,
१७

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104