Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 55
________________ एमेव भवण-वंतर जोइसदेवेसु णवरं खु ॥२२॥ लोगस्स असंखंसो, उप्पाया "एमेव भवणे"त्यादि, यथाऽनन्तरं देवौघे उक्तातथैव भवनपति-व्यन्तर-ज्योतिष्कदेवभेदेषु स्पर्शना भवति, 'णवरं'केवलमुत्पादात् लोकाऽसंख्येय-भागमात्रा भवति, न पुनर्देवौघवत् पञ्च भागाः । कथम् ? तत्र तिर्यग्लोकात्पञ्चरज्ज्वन्तरेणोत्पद्यमानानां सहस्रारदेवानां प्रवेशादिह तु तिर्यग्लोकाददूरेण शत-सहस्रादिसंख्येययोजनमात्रान्तरेणोत्पद्यमानानां भवनपत्यादिदेवानामेव प्रवेशादिति । शेषद्विविधा तु तत्राऽपि भवनपत्यादिदेवाक्षिप्तेतीहापि संघटत इति ॥ एवमेव तेऊए । सोहम्मीसाणेसु य . परमुष्पायेण सड्ढसो ॥२३॥ "एवमेव" इत्यादि, भवनपत्यादिदेवभेदवदेव तेजोलेश्यायां सौधर्मेशानदेवभेदयोश्च, 'परं' केवलमुत्पादेन "सड्ढसो" त्तिं वसनाडे: सार्धाघनरज्जुर्भवति, तिर्यग्लोकात् सार्धरज्जवन्तरेण सौधर्मेशानकल्पयोर्व्यवस्थानात् । तदुक्तं जीवसमासे "ईसाणम्मि दिवड्ढा अड्ढाइज्जा य रज्जू माहिती। पंचर सहस्सारे छ अच्चुए सत्त लोगंते ॥१९१॥" इति

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104