Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
विज्ञेया । अन्यदपवादपदमाह - "मीसे ण" त्ति सम्यग्मिथ्यात्वे उत्पादात्स्पर्शना न भवति, न केवलमुत्पादात् किन्तर्हि ? " समुग्धाया वि णेव भवे" त्ति समुद्घातादपि नैव भवति स्पर्शना । कथम् ? मिश्रदृष्टिभावे जन्माभाववद् मरणाभावेन मारण - समुद्घातस्याऽभावादिति ॥२८॥
देसे उ समुग्धाया,
पणेव भागेयरा ण सासाणे ।
कमसोऽट्ठि- गार बारस
गमागमुप्पायओ संमुग्घाया ॥२९॥
" देसे" इत्यादि, देशसंयमे समुद्घातात् पञ्चैव भागास्त्रसनाड्यः स्पर्शना भवति, देशविरततिर्यग्जीवापेक्षया तल्लाभात् । " इयरा ण" त्ति देशसंयमे प्रोक्तेतरोत्पाद - गमनागमनकृता द्विविधा स्पर्शना न भवति । “सासाणे" त्ति सासादनमार्गणास्थाने क्रमशः " अट्ठ" इत्यादि, गमनागमनादष्टौ भागाः, उपपातत एकादश भागाः, समुद्घाताच्च द्वादश भागास्त्रसनाडेर्घनरज्जुरूपाः स्पर्शना भवति । तत्राष्टौ प्रागिव देवकृता, एकादश तु षष्ठनिरयतस्तिर्यक्तयोत्पद्यमाननारककृताऽधोलोकसम्बन्धिनी पञ्च रज्जव ऊर्ध्वलोकसम्बन्धिनी च शेषा तिर्यक्तयोत्पद्यमानाऽच्युतकल्पगतसहस्रारान्तदेवकृतेति । समुद्घातकृता द्वादश भागास्तु अनन्तरोक्तनीत्या तिर्यक्तयोत्पित्सुषष्ठनारककृता पञ्च भागा ईषत्प्राग्भारापृथिव्यामेकेन्द्रियतयोत्पित्सुभिर्भवनपत्यादिदेवैः कृता सप्तभागा चेति कृत्वेति ॥ २९ ॥
अथ वैमानिकदेवादिजीवानां स्थानादिविषयकमतभेदकृतामपि त्रिविधस्पर्शनां संजिघृक्षुरेकामा-र्यामाह
५९

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104