SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विज्ञेया । अन्यदपवादपदमाह - "मीसे ण" त्ति सम्यग्मिथ्यात्वे उत्पादात्स्पर्शना न भवति, न केवलमुत्पादात् किन्तर्हि ? " समुग्धाया वि णेव भवे" त्ति समुद्घातादपि नैव भवति स्पर्शना । कथम् ? मिश्रदृष्टिभावे जन्माभाववद् मरणाभावेन मारण - समुद्घातस्याऽभावादिति ॥२८॥ देसे उ समुग्धाया, पणेव भागेयरा ण सासाणे । कमसोऽट्ठि- गार बारस गमागमुप्पायओ संमुग्घाया ॥२९॥ " देसे" इत्यादि, देशसंयमे समुद्घातात् पञ्चैव भागास्त्रसनाड्यः स्पर्शना भवति, देशविरततिर्यग्जीवापेक्षया तल्लाभात् । " इयरा ण" त्ति देशसंयमे प्रोक्तेतरोत्पाद - गमनागमनकृता द्विविधा स्पर्शना न भवति । “सासाणे" त्ति सासादनमार्गणास्थाने क्रमशः " अट्ठ" इत्यादि, गमनागमनादष्टौ भागाः, उपपातत एकादश भागाः, समुद्घाताच्च द्वादश भागास्त्रसनाडेर्घनरज्जुरूपाः स्पर्शना भवति । तत्राष्टौ प्रागिव देवकृता, एकादश तु षष्ठनिरयतस्तिर्यक्तयोत्पद्यमाननारककृताऽधोलोकसम्बन्धिनी पञ्च रज्जव ऊर्ध्वलोकसम्बन्धिनी च शेषा तिर्यक्तयोत्पद्यमानाऽच्युतकल्पगतसहस्रारान्तदेवकृतेति । समुद्घातकृता द्वादश भागास्तु अनन्तरोक्तनीत्या तिर्यक्तयोत्पित्सुषष्ठनारककृता पञ्च भागा ईषत्प्राग्भारापृथिव्यामेकेन्द्रियतयोत्पित्सुभिर्भवनपत्यादिदेवैः कृता सप्तभागा चेति कृत्वेति ॥ २९ ॥ अथ वैमानिकदेवादिजीवानां स्थानादिविषयकमतभेदकृतामपि त्रिविधस्पर्शनां संजिघृक्षुरेकामा-र्यामाह ५९
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy