Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
सोहम्मआइग-जुगल
धम्मिय-ठाणाइवयणभेआओ । सयमेवोण्णेया खलु । तिहावि फुसणा इयरहा उ ॥३०॥
"सोहम्मआइगे" त्यादि, आदिपदादीशान-सनत्कुमारकल्पादीनां ग्रहणम्, "ठाणाइ" इत्यतः स्थानपदमिहापि सम्बध्यते, तथा च सौधर्मकल्पादिस्थान-युगलम्मिकस्थानानि, "ठाणाइ" इत्यत्राऽऽदिपदात्सौधर्मप्रतरेषु देवानां जघन्यस्थितिरित्येतत्प्रतिपादकानि यानि वचनानि तेषां 'भेदतः" विषयभेदात्, विषयभेदं समाश्रित्येत्यर्थः । "इयरहा उ" त्ति 'इतरथा'-उक्तेतरप्रकारेण तु स्वयमेव 'उन्नेया' अभ्यूह्या उत्पादादिभेदभिन्ना त्रिविधस्पर्शना ।
अयम्भावः-अनन्तरं 'सोहमम्मि दिवड्ढा' 'सव्वत्थ जहण्णओ पलिय'मित्यादिकं संदर्भमनुसृत्य देवगत्योघादिमार्गणास्थानेषु "देवेऽ?पण-नवे"त्यादिना गमनागमनादिकृता स्पर्शनाऽष्टरज्ज्वादिमात्रा-ऽभिहिता, यानि पुनः ‘रयणप्पभाए उवरिमतलाओ आरद्धं जाव सोहम्मो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरिं आरद्धं जाव सणंकुमारमाहिंदा एस बिइओ' इत्यादीनि तिर्यग्लोकाद्रज्जु-द्विर-ज्ज्वाद्यन्तरेण सौधर्मादिकल्पविमानस्थानानां प्रतिपादनपराणि आवश्यकचूादिवचनानि, यानि च 'ऊर्ध्वलोक एकोनविंशतिखण्डी-कृतस्ततस्तस्य संबन्धिन्येकोनविंशभागे समधिके उड्डविमानं वर्तते तिर्यग्लोकात्' इति तिर्यग्लोकाद्रज्जुसंख्येयभागमात्रान्तरेण सौधर्मकल्पप्रारम्भप्रतिपादनपराणि, तथा 'जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा स्थितिः सर्वत्र वाच्या' इति सौधर्मादिकल्पद्वयेऽनन्तराधस्तनप्रस्तटोत्कृष्ट-स्थितिप्रमाणा हि
६०

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104