Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 65
________________ स्पर्शनाऽस्ति, न पुनरकषाय-जीवानधिकृत्यापीत्यर्थः । तर्हि अकषायजीवानधिकृत्य सा कियती भवेदित्याह-"उकसायजीवे" इत्यादि, ‘पडुच्च फुसणा' इतीहापि सम्बध्यते, तथा चाकषायजीवान् प्रतीत्य स्पर्शना "खित्तव्व" त्ति क्षेत्रवद्भवति, यथा 'अकसाये अहिकिच्च उ ते जत्थऽत्थि तहि सव्वत्थ ॥१०॥ लोगस्स असखंसो सट्टाणाओ' इत्यादिना सार्धगाथाद्वयेनाऽक-षायजीवानां स्वस्थानतः समुद्घाततश्च लोकाऽ-संख्येयभागादिमानं क्षेत्रं भणितम्, अन्यत्तु निषिद्धम्, तथाऽकषायान् जीवानधिकृत्य स्वस्थानतः समुद्वाततश्च लोकासंख्येयभागादिमाना क्षेत्रतुल्या स्पर्शना वक्तव्या, अन्यथा उपपातादितस्तु प्रतिषेध्येत्यर्थः । एतदेव स्पष्टयन्नाह-"समुग्घाया" इत्यादि, गतार्थम् । - इह यद्यपि मनोयोगादिमार्गणास्वकषायजीवानां समुद्घातकृतक्षेत्रापेक्षया समुद्घातकृतस्पर्शना संख्येयगुणा भवति, तथाऽपि सा लोकासंख्येयभागमात्रा एव, परिपूर्णमनुष्यलोकादनुत्तरविमानेषु निक्षिप्तात्मदण्डानामपि लोकासंख्येयभागमात्राव-गाहनात्, तथा च निरपवादातिदेशोऽविरुद्ध एव, क्षेत्र-स्पर्शनानानात्वेऽपि 'लोकासंख्येयभाग' इत्येवंरूपाया वक्तव्यताया उभयत्र तुल्यत्वादिति । शेषं तु सुगममिति ॥३१॥ अथोपसंहरन्नाहइइ रइयं सिद्धंतमहोदहि-सुण्णायकम्मसत्थाणं । तवगच्छखे रवीणं रज्जे सिरिपेमसूरीणं ॥३२॥ ताण पसीसाण पउमविजयगणिंदाण सीसलेसेण । खित्त फुसणापगरणं नन्दउ जा वीरजिणतित्थं ॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104