Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 63
________________ तदुपरितनप्रतरजघन्या स्थितिः, न पुनः सर्वेषु प्रतरेषु जघन्या समेति प्रतिपादन-पराणि देवेन्द्रनरकेन्द्रस्तव-प्रकरणविवृतिवचांसि, तथा "बाह्येषु'-मनुष्यक्षेत्राबहिर्ये वर्तन्ते द्विपाः समुद्राश्च तेषु तिर्यग्योनिजा असंख्येयवर्षायुषो भवन्ति' इति मनुष्यक्षेत्राबहिरपि असंख्येयवर्षायुषां युग्मि-तिरश्चां सद्भावं संगिरन्ति तत्त्वार्थाधिगमसूत्रवृत्तिवचनानि तान्यधिकृत्योक्तान्यथा लभ्यमाना उत्पादादिभेदभिन्ना स्पर्शना स्वयमेवाम्भूह्या । तद्यथा-उक्तावश्यकचूर्यादिवचनतस्तिर्यग्लोकात्पञ्चरज्ज्वन्तरेणा-ऽच्युतकल्पः, तथा च प्राग् यत्र गमनागमनत ऊर्ध्वलोकसम्बन्धिषड्रज्जुस्पर्शना कथिता तत्र साऽऽवश्यकचूादिवचनानुसारेण पञ्चरज्जुमाना द्रष्टव्या, अधोलोकसम्बन्धिनी तु प्रागिव रज्जुद्वयमेवेत्येवं चूर्णादिवचनेन देवगत्योघ-भवनपति-व्यन्तरज्योतिष्कादिदेवभेदेषु पञ्चेन्द्रियौघादिमार्गणासु च यत्र गमनागमनतोऽष्टरज्जुस्पर्शना भणिता, तत्र सा सप्त रज्जवो भवति । अनेन वचनेन सौधर्मादिकल्पा एकादिरज्जवाधः स्थिताः, तथा च तेषूत्पादकृतस्पर्शना पूर्वोक्तस्पर्शनापेक्षया यथासम्भवमर्धरज्ज्वा रज्ज्वा न्यूना द्रष्टव्या । तद्यथा-सौधर्मेशानकल्पयोरेका रज्जुः, सनत्कुमार-माहेन्द्रयो रज्जुद्वयम्, ब्रह्मकल्पे सार्धरज्जुद्वयम्, लान्तककल्पे रज्जुत्रयम्, शुक्रकल्पे सार्धरज्जुत्रयम्, सहस्रारकल्पदेवौघयो रज्जुचतुष्टयम्, तेजोलेश्यायामेका रज्जुः, मति-श्रुतज्ञाना-ऽवधिद्विक-पद्मलेश्या-सम्यक्त्वौघ-क्षायोपशमिक सम्यक्त्वेषु चतस्रो रज्जवः । इत्थमेवान्यत्राप्यभ्यूह्या । इत्थमेव तत्त्वार्थवृत्त्यादिवचनान्तराण्यधिकृत्याऽपि प्रोक्तविलक्षणा स्पर्शना स्वयमेवोद्भावनीया, अस्माभिस्तु एकत्र मार्गणास्थाने दिगिति कृत्वा नानाविकल्पापन्ना संक्षेपतः प्रदर्श्यते, नान्यत्र, तद्यथा-क्षायिकसम्यक्त्व

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104