Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 64
________________ मार्गणास्थाने यत्र पूर्वमुत्पादतो लोकासंख्यभागमात्रा, गमागमनतः समुद्घाततश्चाष्टौ रज्जवः स्पर्शना दर्शिता, तत्र आवश्यकचूादिवचनाधिकारे गमनागमनतः समुद्घाततश्च सप्त रज्जवः स्यात्, उत्पादतस्तु लोकाऽसंख्येयभागमात्रैव, आवश्यकचूण्यादिवचनादूर्ध्वलोकप्रथमरज्जौ सौधर्मादिकल्पाधिकरणे तत्त्वार्थाधिगमसूत्रान्मनुष्यक्षेत्राद्वहिरपि असंख्येयवर्षायुषां तिरश्चां सद्भावाधिकारे चोत्पादतो न लोकासंख्येयभागमात्रा, अपि तु एकरज्जुमाना स्यात्, मनुष्यलोकबहिस्तादपि क्षायिकसम्यग्दृशां प्रथमकल्पचरमप्रतरं यावदुत्पादस्य लाभात्, यदि चाऽत्रैव 'जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा' इत्यादि-देवेन्द्रनरकेन्द्रस्तववृत्तिवचनात्सौधर्मप्रथमप्रस्तट एव देवानां जघन्या स्थितिरधिक्रियेत, न पुनः 'सव्वत्थ जहन्नओ पलिय' मित्यादि, ‘एवम् 'ऊर्ध्वलोक एकोनविंशतिखण्डीकृतस्ततस्तस्य सम्बन्धिन्येकोनविंशभागे समधिके उडुविमानं वर्तते तिर्यग्लोकात्' इति चाधिक्रियेत तदा क्षायिकसम्यग्दर्शनमार्गणायामुपपातकृता स्पर्शना रज्जुसंख्येयभागमात्रा सम्पद्येत, द्विधा तु पूर्ववदेवेति दिग् । इति ॥३०॥ . ____ अथ सकषायजीवकृतां स्पर्शनामुपसंहरन्नकषायजीवकृतां च तामतिदिशन्नाह इइ सकसाये जीवे, ___ पडुच्च फुसणाऽकसायजीवेऽत्थि । खित्तव्व समुग्घाया, सट्ठाणाऽवि ण हवइ इयरा ॥३१॥ "इइ", इत्यादि, 'इति'-एवमुक्तप्रकारेण सकषायजीवान् प्रतीत्य बाद ६२

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104