Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
"
'इइ रइय" मित्यादि, अस्य चान्वय उत्तरगाथोत्तरार्धे 'खित्तफुसणापगरणं' इत्यादिना, तथा च "इति" - तदेवं चतुःसप्तत्युत्तरशतमार्गणास्थानेषु नानाजीवाश्रयक्षेत्र - स्पर्शनाकथनद्वारेण श्रीमतः सकलागमरहस्यवेदिनः परमज्योतिर्विदः स्वगुरो-विजयदानसूरिप्रभोः सकाशात् समवाप्त- 'सिद्धान्त - महोदधी' त्युपाधीमतां 'सुण्णायकम्मसत्थाणं' ति सुष्ठु - पूर्वापरसमालोचना -ऽऽगुणन-परप्रपाठनादिना प्रकारेण ज्ञातानि=अवगतान्यर्थतः कर्मशास्त्राणि - कर्मप्रकृति - शतकपञ्चसंग्रहप्रभृतीनि यैस्ते सुज्ञातकर्मशास्त्रास्तेषां सुज्ञातकर्मशास्त्राणां 'तवगच्छखे रवीणं' ति तपोगच्छः प्रतीतः स एव खम् अम्बरमिवाऽम्बरम्, भवति हि तपोगच्छ: खोपमः, तत्र सूर्य-चन्द्र-ग्रह-नक्षत्रादिकल्पानां ज्ञानादिद्युत्या स्वं परं चाज्ञानतमोभरे बम्भ्रम्यमाणं भव्यगणं प्रकाशयतां नैकानामाचार्योपाध्याय- वृषभ - गणावच्छेदकप्रमुखाणां सततं स्वचर्यां चरतामुपलम्भात् । तस्मिन् तपोगच्छखेरवयः- भास्करा:, तेषाम् एवम्भूतानां 'रज्जे सिरिपेमसूरीणं' ति श्रीमतां प्रेमसूरीणां 'राज्ये' साम्राज्ये - शासने प्रवर्तमाने 'ताण' त्ति तेषां पूज्यपादानां "पसीसाण" त्ति प्रशिष्याणां - शिष्यशिष्याणाम्, तत्र प्रेमसूरीश्वरपूज्यपादानां स्वशिष्याः सुविख्यातनामधेयाः स्वात्मसाधनाऽविकलभव्यजन्तुहितकरानेकविधकुशलानुष्ठानपरायणा विपुलविनेयगणपरिवृता न्यायशास्त्रनिपुणाः पन्यास - श्रीमद्भानुविजयगणीन्द्राः, तच्छिष्यास्तु स्वभावसरलाः प्रशान्तप्रकृतयः सौम्यवदनाः समाकृष्टान्तेवासिचित्तचकोराः श्रीमन्तः पंन्यासाः पद्मविजयगणीन्द्राः । एतदेवाह - 'पउमविजय' इत्यादि, तेषां पद्मविजयगणीन्द्राणां 'सीसलेसेण' त्ति समयोक्तशिष्यगुणानां यथावदभाजनतया नामशिष्यप्रायेण जगच्चन्द्र- विजयेन मुनिना रचितमिदं
६४

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104