Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
मइसुयणाण-अवहिदुग
सम्म-पउम-वेयगेसु उप्पाया । पण भागा दुविहा पुण,
भागा अद्वैव विण्णेया ॥२७॥ "मइ” इत्यादि, मतिज्ञान-श्रूतज्ञानाऽवधिद्विक-सम्यक्त्वौघक्षायोपशमिकसम्यक्त्व-पद्मलेश्यालक्षणेषु सप्तमार्गणाभेदेषूत्पादात् वसनाड्याः पञ्चचतुर्दशभागाः स्पर्शना भवति, समस्ततिर्यक्प्रतरव्यापिनां सम्यग्दृष्टितिरश्चामुत्कृष्टतोऽष्टमकल्प एवोत्पादात् अष्टमकल्पस्य तिर्यग्लोकात्पञ्चरज्ज्वन्तरेण व्यवस्थितेः प्राग्दर्शितत्वाच्च । “दुविहा पुण" त्ति समुद्घात-गमनागमनकृता शेषद्विविध-स्पर्शना पुनः सनत्कुमारादिदेववत् त्रसनाड्या अष्टौ भागा विज्ञेयेति ॥२७॥
एमेव खइय-उवसम
मीसेसुं णवरि जगअसंखंसो । उप्पाया दुसु मीसे
___ण समुग्घाया वि णेव भवे ॥२८॥ "एमेव खइय" इत्यादि, ‘एवमेव' मतिज्ञानादिमार्गणास्थानवदेव क्षायिकसम्यक्त्वौ-पशमिकसम्यक्त्वसम्यग्मिथ्यात्वेषुस्पर्शना भवति, "णवरि" केवलं "दुसु"त्ति क्षायिकौपशमिक-सम्यक्त्वयोर्द्वयोर्मार्गणयोरुत्पादकृतस्पर्शना जगदसंख्येयभागमात्रा भवति, सा च क्षायिकसम्यक्त्वे मनुष्यलोकवर्ती क्षायिकसम्यग्दृष्टियुग्मि-तिर्यगपेक्षया मनुष्यापेक्षया वा स्यात् । एवमेवौपशमिकसम्यक्त्वेऽपि विभावनीया, श्रेणौ भवान्तप्राप्तानामेव देवभवप्रथमसमये औपशमिक-सम्यक्त्वसम्भवात्, नान्येषामिति । शेषसमुद्घातगमनागमन-कृताष्टभागस्पर्शना तु प्रागिव
५८

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104