Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
तिर्यग्मनुष्याणां मृत्वा सर्वत्रोत्पत्तेः सम्भवात् । औदारिककाययोगे तु केवला समुद्घातप्रयुक्ता सर्वलोकस्पर्शनाऽनन्तरोक्तनीत्या विज्ञेया, शेषासु पञ्चेन्द्रियौघादिषु पञ्चविंशतिमार्गणासु द्विविधा तु मनोयोगादिवदेव, तृतीयोत्पादतस्तु तिर्यग्गत्योघादिभेदवत्सर्वलोकवर्तिसूक्ष्मैकेन्द्रियादीनां
पञ्चेन्द्रियतयोत्पत्तेर्ज्ञातव्येति ॥ १९-२० - २१॥
देवेऽ पण नव कमा, गमागमु-प्यायओ समुग्धाया ।
"देवेऽट्ठ" इत्यादि, देवगत्योघे त्रसनाडिसम्बन्धिनो यथोक्तस्वरूपा घना अष्टौ पञ्च नव च भागाः 'क्रमाद्' - यथासंख्यं गमनागमनाद् उत्पादतः समुद्घाताच्च स्पर्शना भवति । तत्राष्टौ रज्जवो देवानामधोलोके तृतीयपृथिवीं यावद् रज्जुद्वयमुपरि चाच्युतकल्पं यावद् रज्जुषट्कं गमनात् । उत्पादतः पञ्च रज्जवस्तु एकरज्जुवृत्तविस्तृतात् तिर्यग्लोकात् तिर्यगायुःक्षयेण सहस्रारकल्पे देवतयोत्पद्यमानजीवा पेक्षया प्राग् यथा षष्ठपृथिवीनरकभेदे उत्पादतो दर्शिता तथा ज्ञेया । समुद्घातकृता नव रज्जव: स्पर्शना पुन-विहारवत्क्षेत्रतयां तृतीय- नरकस्पृशितिर्यक्प्रतरेषु सर्वत्र गतानामनन्तरभवे ईषत्प्राग्भारापृथिव्यां पृथिवीकायत्वेनोत्पित्सूनामनन्तमतीतकाल -मधिकृत्यानन्तानां भवनपत्यादीशानान्तदेवानां तत्रैव प्राप्तमुमुर्षुभावानां मारणसमुद्घातेनोत्पत्तिस्थलावधिक-प्रसृतात्मप्रदेशदण्डानपेक्ष्य विज्ञेया, सा च रज्जुद्वयमधोलोकसंबधिनी रज्जुसप्तकं तूर्ध्वलोकसम्बन्धिनी । इह मध्यवर्तित्वात्तिर्यग्लोकस्य स्पर्शनाप्यस्ति एव, परंसाऽप्रधाना प्रोक्ताधोलोकोर्ध्वलोकसंबन्धि - द्विविधस्पर्शनयैव गतार्था विज्ञेया । एवमन्यत्राऽपि रज्जु - द्विरज्ज्वादि- स्पर्शनायामेकदेशस्य ग्रहणाग्रहणे गौणभाव एव विज्ञातव्यः, यत्र केवललोकाऽसंख्येयभागमात्रा स्पर्शना तत्रैव तस्य मुख्यवृत्त्याऽधिकृत-त्वादिति ॥
५२

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104