Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
अयते णयणा-ऽणयणे,
कुलेस-भव्वि-यर-मिच्छेसुं ॥२०॥ सण्णिम्मि य आहारे,
हवेइ फुसणा परं ण उप्पाया । पणमणवयजोगेसुं,
गमागमा वि ण उरालेऽत्थि ॥२१॥ "एमेव दुहा" इत्यादि, द्विविधा उत्पाद-समुद्घातभेदभिन्ना 'एवमेव'-यथाऽनुपदमुक्ता तथैव सर्वलोकप्रमाणैव स्पर्शना भवति, "अहँसा गमागमेण य" त्ति त्रसनाडेरष्टचतुर्दशभागलक्षणा अष्टौ घनरज्जवो गमनागमनेन च स्पर्शना भवति, कुत्र ? इत्याह-'पणिदिय' इत्यादि, पञ्चेन्द्रियौघ-त्रस-कायौघयोः, तयोः पर्याप्तभेदयोस्तथा पञ्चमनोयोग-पञ्चवचोयोग-काययोगौघेषु, औदारिककाययोग-स्त्रीवेदपुरुषवेदेषु, कषायचतुष्के, त्रिविधेऽज्ञाने, असंयमे, चक्षु-रचक्षुर्दर्शनयोः, कृष्णादिकुलेश्यात्रय-भव्य-तदितराऽभव्य-मिथ्यात्वेषु, संज्ञिमार्गणास्थाने आहारकर्मार्गणास्थाने च "हवेइ फुसणा" त्ति स्पर्शना भवतीति प्राग्योजितम् । अत्रैवापवदति-"ण" इत्यादि, पञ्चसु मनोयोगेषु पञ्चसु वचोयोगेषु चोत्पादतः स्पर्शना न भवति, केषाञ्चिदपि जीवानां भवप्रथमसमये मनोवचोयोगयोरप्रवर्तनात् । तथा "गमागमावि ण उरालेऽत्थि" त्ति अपिशब्दस्य समुच्चायकतया गमागमाद् उत्पादाच्चेत्येवं द्विविधाऽपि स्पर्शना औदारिककाययोगे न भवति । तथा च मनोवचोयोगभेदेषु गमनागमनतोऽष्टरज्जुस्पर्शना समुद्घाततश्च सर्वलोकस्पर्शना भवति, तत्राष्टौ रज्जवो देवकृताऽधस्तृतीयनरकावधिकोपरि अच्युतकल्पपर्यवसाना इति कृत्वा । सर्वलोकस्तु प्रागिव मनोवचोयोगिनां

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104