Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
भवति; 'परम्'- केवलमिह मार्गणाभेदनवके उत्पादात् स्पर्शना नास्ति, आहारकत्वादिभावानामष्टवर्षातिक्रान्ताऽऽयुष्कजीवानामेव सम्भवेन भवाद्यसमयवर्तिनां तत्राऽनिवेशात्, तदेवमिह स्वस्थानतः समुद्घाततश्चेत्येवं द्विविधा स्पर्शना लोकासंख्येयभागमात्रा प्राप्यत इति ॥ १६ ॥
दुइआइणिरयपणगे,
कमा इग-दु-ति-च-पंच भागात्थि । दुविहा ण गमागमओ,
"दुइआइ " इत्यादि, द्वितीयादिषु पञ्चसु नरकपृथ्वीमार्गणास्थानेषु क्रमात् त्रसनाडे: एक-द्वि-त्रि- चतुः - पञ्चभागाः स्पर्शना भवति, कथम्भूते - त्याह- 'दुविहा' त्ति उत्पादतः समुद्घातत - श्चेत्यर्थः । 'ण' त्ति गमनागमनतस्तु प्रागिव न भवत्येव, काचित्स्वस्थानापेक्षया विशिष्टेत्यर्थः । तत्रैकादिभागमाना द्विविधस्पर्शना सप्तमनरकपृथिव्यां दर्शितषड्रज्जु-स्पर्शनावद्विभावनीया, तिर्यग्लोकाद् द्वितीयादिपृथिवीनारकस्थानानामेकादिरज्ज्वन्तरेण व्यवस्थितत्वात् । तदुक्तं लोकप्रकाशे“सर्वाधस्तनलोकादारभ्योपरिगं तलम् ।
यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥९॥
प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ||१०||" इति । समस्तात् तिर्यग्लोकात् तत्र द्वितीयादिपृथिवीषु नारकतया, ततश्च द्वितीयादिनरकपृथिवीतस्तिर्यक्त्वेन समस्ततिर्यग्लोके उत्पत्तेरविरोधा
दिति ।
४९

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104