Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
मनुष्यक्षेत्रस्य तेषां देवानां स्वस्थानक्षेत्रस्य च तिर्यक्प्रतराऽसंख्येयभागमात्रगतत्वेन यथोक्तानामूर्ध्वाध: षड्रज्जुमानात्मदण्डानां तिर्यग्रज्ज्वसंख्येयभागमात्रबाहल्यभावादुपपात-समुद्घातकृता द्विविधाऽपि स्पर्शना लोकाऽसंख्येयभाग-मात्रा एव भवतीति । इदमत्र हृदयम्-विवक्षितमुमूर्षुजीवानां यत्रावस्थानं सम्भवति तत्क्षेत्रं यत्र च ते उत्पत्स्यन्ते तत्क्षेत्रमित्येवं द्विविधमपि क्षेत्रं प्रत्येकं यत्र तिर्यक्प्रतरासंख्येयभागमात्रवर्ति भवति तत्र तयोरूर्वाधोऽन्तरालस्य रज्जु-द्विरज्ज्वादि-प्रमाणत्वेऽपि तज्जीवकृतात्मप्रदेशदण्डानां तिर्यक्-प्रतराऽसंख्येयभागमात्रगतत्वेन स्पर्शनाऽपि लोका-ऽसंख्येयभागमात्रा भवति, उक्तक्षेत्रद्वयमध्यादेकविधक्षेत्रस्याऽपि तिर्यक्प्रतरव्यापित्वे तु स्पर्शना सान्तरालोर्ध्वाधःक्षेत्रमानानुसारेणैकव्यादिघनरज्जुमाना लभ्यते, ऊर्ध्वाधोवर्युक्तद्विविधक्षेत्रान्तरालस्य रज्ज्वसंख्येयभागमात्रत्वे तु तस्य द्विविधक्षेत्रस्य परिपूर्णतिर्यक्प्रतरव्यापित्वेऽपि न भवति लोकासंख्येयभागादधिका स्पर्शनेति सर्वत्र यथासम्भवमभ्यूह्येति ॥१५॥
एमेवाऽऽहारदुगे, __अवेअ-मणणाण-संजमोहेसुं । परिहार-छेअ-समइअ
सुहुमेसु परं ण उप्पाया ॥१६॥ "एमेवाहारदुगे' इत्यादि, "एवमेव'-यावती प्रथमनरकादिमार्गणाभेदपञ्चदशकेऽनुपदमभिहिता तावती एवा-ऽऽहारकाऽऽहारकमिश्रकाययोगा-ऽपगतवेद-मनःपर्यवज्ञान-संयमौघ-सामायिकछेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयमलक्षणेषु नवमार्गणाभेदेषु
४८

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104