Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 48
________________ एकमप्याकाशप्रदेशमविहाय सर्वतो यथाऽन-न्ताः सिद्धिमवाप्नुवन्नतीताऽनन्तकाले तथा ततः सर्वतोऽनन्ता मृत्युमवाप्य गत्यन्तरमपि प्राप्ता एव, अतीतकालस्यानन्तत्वेन योग्यतासद्भावे प्रत्येकं भावानामतीतकालेऽनन्तशो भूतत्वात्, अस्ति हि मनुष्यक्षेत्रगतप्रत्येकाकाशप्रदेशा मनुष्याणां मृत्यधिकरणयोग्याः । यथा हि मनुष्याणां परिपूर्ण मनुष्यक्षेत्रं मृत्यधिकरणयोग्यम्, इत्वा च ततः सर्वस्मादनन्ता मनुष्या मृति गत्यन्तरमवाप्तास्तथा परिपूर्णस्य तिर्यक्क्षेत्रस्य तिरश्चां मृत्यधिकरणयोग्यत्वेन तदेकरज्जुवृत्तविस्तृतात्परिपूर्ण-तिर्यक्षेत्रात् मृत्युमवाप्याऽनन्तास्तिर्यञ्चोऽतीतकाले स्व-प्रायोग्यगत्यन्तरे-ऽवश्यमिताः, तन्मध्येऽनन्ताः सप्तमभूमौ नारकतयाप्युत्पन्नाः सर्वस्मात् तिर्यगेकरज्जुवृत्तविस्तृतात् तिर्यक्षेत्रात् । तत्रोदितनरकायुषा-मुर्ध्वाधः षड्रज्जूच्छ्रिताः परिपूर्णतिर्यक्प्रतरप्रारब्धा ये अनन्ता आत्मदण्डा-स्तैस्तिर्यगेकरज्जुवृत्तविस्तृतमूर्ध्वाधस्तिर्यग्लोकात् सप्तमभूमिपर्यन्तं षड्-रज्जुमानं घनं वसनाड्यन्तर्गतं सघनषड्रज्ज्वात्मकं क्षेत्रमापूरितं, नानाऽतीतकालापेक्षया स्पृष्टमेवेत्यर्थः । तदेवोपपातमधिकृत्य सप्तम-नरकमार्गणाभेदे तदेव च नरकगत्योघे त्रसनाडे: षट्चतुर्दशभागात्मिका मूलोक्तस्पर्शना विज्ञेया । यद्यपीह स्वयम्भूरमणसमुद्रस्य बहिर्जगतेः परभागवर्तिनि घनवातवलयादिप्रान्तभागलक्षणे क्षेत्रे पञ्चेन्द्रियतिरश्चाम-सम्भवेन ततः क्षेत्रात् नारकतया न लभ्यते केषां-चितिरश्चामुत्पत्ति, तत एव तत्तिर्यग्लोकप्रान्तभागस्पृक्तदात्मप्रदेशदण्डानामप्यप्राप्तेन लभ्यते तावत्क्षेत्रस्पर्शनाऽपि, तथा च नान्यूनषड्रज्जुस्पर्शना, किन्तु देशोनषड्रज्जव एव तथापि एकदेशन्यूनतामविवक्ष्य सामान्येनैव परिपूर्णाः षड्रज्जवो-ऽभिहिता । एवमेवान्यत्राऽपि सामान्यत एकद्वयादिरज्जु-स्पर्शनाऽभिधानेऽपि यथासम्भवमेकदेशादिना न्यूनाऽधिका वा सा स्वयमेवावसातव्येति । ४६

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104