Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 46
________________ अह फुसणा अवि तिवा, तुरियावि गमागमेण देवाणं । सट्टाणा सव्वत्थवि, खित्तसमाणा हवइ सा उ ॥१३॥ "अह" इत्यादि, अथाऽऽनन्तर्ये, क्षेत्रप्ररूपणा-ऽनन्तरं स्पर्शनाप्ररूपणप्रस्ताव इति तदर्थः । “फुसणा अवि तिविहा" त्ति क्षेत्रवत् स्पर्शनाऽपि उपपात-स्वस्थानसमुद्घातभेदात् त्रिविधा भवति, "तुरिया-ऽवि" त्ति न केवलं क्षेत्रवत् त्रिधा, किन्तर्हि ? 'तुरिया'चतुर्थी अपि भवति, कथं केषामित्याह-"गमागमेण देवाणं" ति, केषाञ्चिद्भवन-पत्याद्यच्युतकल्पान्तानां देवानां जिनजन्मादिमह-क्रीडाकुतूहल-पूर्वसांगतिकमीलनादिप्रयोजनेन गमनागमनादुत्कर्षतोऽधस्तृतीयभूमिमूर्ध्वमच्युतकल्पं तिर्यक् स्वयम्भूरमणसमुद्रवेदिकान्तं यावद् यथा-सम्भवमिति । तत्र 'सट्ठाणा' त्ति नरकगत्योघादिषु सर्वत्र मार्गणास्थानेषु सा स्पर्शना 'स्वस्थानात्' स्वस्थानापेक्षया क्षेत्रसमाना'स्वस्थानक्षेत्रेण यथोक्तमानेन समाना भवति । अत्र स्वस्थानस्पर्शनायाः स्वस्थानक्षेत्रेण तुल्यत्वं लोक-लोकासंख्येय-भागादिना प्रकारेण, न पुनः सर्वथा तुल्याकाशप्रदेशादिना । कथम् ? यत्र स्वस्थानतो लोकासंख्येयभागमानं क्षेत्रं तत्र स्वस्थानस्पर्शनाया लोकासंख्येभागमात्रत्वेऽपि ? क्षेत्रस्य सामयिकत्वेन स्पर्शनायान्तु व्यतीतानन्तसामयिकत्वेन कुत्रचित् पञ्चेन्द्रियतिर्यगोघादौ तयोर्मध्येऽसंख्यगुणादितारतम्यस्यापि भावात्, क्षेत्रापेक्षया स्पर्शनाऽसंख्येय-गुणादिनाऽधिका भवतीत्यर्थः । एवमेवान्यत्राऽपि लोकासंख्येयभागादिना क्षेत्रस्पर्शनयोस्तुल्यत्वेऽपि क्षेत्रात्स्पर्शनाया विशेषता ज्ञातव्या । इति ॥१३॥ ४४

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104