Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
चतुर्थसमये एव केवलिसमुद्घातगतजीवात्मप्रदेशानां लोकव्याप्तेस्तृतीयचतुर्थ-पञ्चमसमयेषु कार्मणकाययोगस्यैव प्रवर्तनाच्च न भवत्यौदारिकतन्मिश्रयोगयो: केवलिसमुद्घातापेक्षयाऽपि सर्वलोकक्षेत्रम्, किन्तु यथोक्तंलोकासंख्येयभागमात्रमेव तत्सम्पद्यते । तथाहि-आयुष्कस्थितितोऽधकस्थितिकानां वेदनीयाद्यघातिप्रकृतीनां क्षपणहेतोः केवली भगवान् समुद्घातं करोति, स च समुद्घातोऽष्टसामयिकः, तस्मिन् केवलिसमुद्घाते प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वाऽधश्चतुर्दशरज्जूछ्रितं स्वात्मप्रदेशदण्डं कुर्वन् लोकासंख्येयभागे तिष्ठति, द्वितीयसमये तस्मादेवात्मप्रदेशदण्डात् बहूनात्मप्रदेशान् पूर्व-पश्चिमदिशोरुत्तर-दक्षिणदिशोर्वा पार्श्वद्वये लोकान्तं यावत् प्रसारयन्नूर्वाधश्चतुर्दशरज्जूच्छितदिग्द्वयलोकान्तगामिकपाटा-कारेणव्यवस्थापयन् लोकासंख्येयभागे व्याप्तो भवति, लोकाऽसंख्येयबहुभागेषु तु न । तृतीयसमये तु तस्मादेव यथोक्तमानात्कपाटात् शेषदिग्द्वये लोकान्तं यावदात्मप्रदेशान् विस्तारयन् लोकप्रान्तवर्तिनिष्कुटादिलक्षणस्तोकमात्रक्षेत्रं विहायाऽशेषप्रायलोकं व्याप्नोति, अयं हि मथिकरणकालः प्रतरकरणकालो वा भण्यते । चतुर्थसमये तु शेषभागमपि पूरयित्वा पञ्चमादिचतुःसमयेषु प्रातिलोम्येन यथासंख्यं लोक-मथि-कपाट दण्डान् संहरन्नष्टमे समये शरीरस्थो लभ्यते, तत्र मथ्यादि संहरता षष्ठ-सप्तमा-ऽष्टमसयवर्तिना तेन लोकासंख्येयभागः व्याप्यते । तथा चोक्तं व्याख्याप्रज्ञप्तिवृत्तौ श्रीमदभयदेवसूरिपादै:
'असखेज्जइभागे होज्ज' त्ति शरीरस्थो दण्ड-कपाटकरणकाले च लोकासंख्येयभागवृत्तिः, केवलिशरीरादीनां तावन्मात्रत्वात् 'असंखेज्जेसु भागेसु होज्ज' त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104