Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
भवति । अयम्भावः- समुद्घातं प्रविष्टा अकषायजीवा उत्कर्षतोऽपि एकस्मिन् समये संख्येया एव प्राप्यन्ते, उपशान्तमोहादि-गुणस्थानगतानामकषायजीवानामेव तद्भावात्, ते चाऽकषायजीवा विहाय केवलिसमुद्घातं लोकासंख्येयभागप्रमाणात्स्वस्थानक्षेत्रादसंख्येयगुणं क्षेत्रं मारणान्तिकसमुद्घातेन पूरयन्तोऽपि लोकाऽसंख्यभागमात्रक्षेत्र-मेव व्याप्नुवन्ति, न पुनस्तदधिकम् । संख्येयानामकषायमनुष्याणां मरणसमुद्घातेन भनुष्यलोकादूर्ध्व-मनुत्तरविमानं यावत् सप्तरज्जुदीर्घस्य बाहल्यतः स्वशरीरप्रमाणस्य च स्वात्मप्रदेशदण्डस्य प्रसारणे-ऽपि लोकासंख्येयभागमात्रावगाहनात्, वेदनादिशेष-समुद्घातापेक्षया तु स्वस्थानक्षेत्रतः संख्येयभाग-मात्राधिकक्षेत्रस्यैवाऽवगाहनाच्च । केवलिसमुद्घातेन तु एकेनाऽपि जीवनोत्कृष्टतः परिपूर्णो लोकः पूर्यते, तथा चाऽकषायजीवोपेतमनुष्यगत्योघादिद्विचत्वारिंशत्मार्गणाभेदमध्ये मनोयोगपञ्चकादिषु केवलिसमुद्घातगतजीवप्रवेशाभावेन मारणसमुद्घाताद्याक्षिप्तं सत् समुद्घातक्षेत्रं लोकाऽसंख्येयभागमात्र-मभिहितम्, मनुष्यगत्योघपर्याप्तमनुष्य-मानुषी-पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रिय-त्रसकायौघ-पर्याप्तत्रसकाय-काययोगौघ-कार्मणकाययोगा-ऽपगतवेदा-ऽकषाय- केवलज्ञानसंयमौघ-यथाख्यातसंयम-केवलदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वौघक्षायिकसम्यक्त्वा-ऽनाहारकलक्षणेषु 'ऽण्णत्थ' इत्यनेन संगृहीतेषु विंशतिसंख्याकेषु मार्गणाभेदेषु तु प्रत्येकं लभ्यते केवलिसमुद्घातगतजीवप्रवेशात्तदाक्षिप्तं प्रस्तुतं समुद्घातकृतक्षेत्रं परिपूर्णो लोक इति तथा भणितमिति ।
___ यद्यपीह कार्मणकाययोगवदौदारिकौदारिकमिश्र-काययोगयोः केवलिसमुद्घातगतजीवानां लाभस्तथाप्यष्टसामयिकस्य केवलिसमुद्घातस्य
४१

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104