Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
मन: पर्यवज्ञानानि, 'विभङ्गज्ञानम्, "संयमौघ - सामायिक छेदोपस्थापनपरिहारविशुद्धिक- सूक्ष्मसम्परायसंयम- देशसंयमाः, 'चक्षु - रवधिदर्शने, 'तेज:पद्मशुल्कलेश्याः, सम्यक्त्वौघ - क्षायिक- क्षायोपशमिकौपशमिकसम्यक्त्वानि, 'सम्यग्मिथ्यात्वं सास्वादनं 'संज्ञी चेति । एतासु त्रिविधमपि क्षेत्रं लोका - ऽसंख्येयभागमात्रं तु प्रत्येकं सूक्ष्माणामयपर्याप्तबादराणां पृथिवीकायिकादीनां पर्याप्तबादरवायुकायानां वाऽप्रवेशात् शेषाणां प्रविष्टानां पर्याप्तबादरपृथिवीकायिकादीनां तु तथास्वाभाव्यादेव रत्नप्रभादि - पृथ्वीपिण्डतयास्थितिमतां परिमाणतोऽपि असंख्येयलोकप्रदेशराशितोऽत्यन्तं हीनानामेकस्मिन् समये स्वस्थानवदुपपातत: समुद्घाततो वा लोकासंख्येय-भागादधिकक्षेत्रस्यानवगाहनात् ।
ननु भवतु नरकगत्योघादिषु यथोक्तनीत्या स्वस्थानादित्रिविधक्षेत्रस्य मनुष्यगत्योघादौ उपपातक्षेत्रस्य स्वस्थानक्षेत्रस्य च लोकासंख्येयभागमानता, न पुनर्मनुष्यगत्योघादौ समुद्घातक्षेत्रस्यापि सा घटामाकलयति, केवलिसमुद्घातगतेनैकेनापि केवलिभगवता एकस्मिन् समये उत्कर्षतः समग्रलोकस्य स्वात्मप्रदेशैः पूरणाद् ? इति चेद्, सत्यम्, परं यदे तदभिहितं क्षेत्रं तत्सकषायजीवानधिकृत्य, न पुनरकषायजीवानधिकृत्य, तथा चाह - "सकसायजीवे" इत्यादि; सकषायजीवानधिकृत्य 'इति' एवंप्रकारेण भणितं क्षेत्रम्, न च सकषायजीवानामसौ केवलि - समुद्घातो जायते, केवलिसमुद्घातं विहाय शेषसमुद्घाताक्षिप्तं क्षेत्रं तु नरकगत्योघादिमार्गणासु लोकाऽसंख्येयभागमात्रमेवेत्येवं सकषायजीवाधिकारान् न दोषलेशोऽपि । अत एवेह शेषमार्गणाभेदेषु अकषाय- केवलज्ञान- केवलदर्शन - यथाख्यातसंयमलक्षणाश्चत्वारो मार्गणाभेदा न संगृहीता इत्यप्यवसातव्यमिति ॥
३९

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104