Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 40
________________ इत्येतावति क्षेत्रे विद्यन्ते त एव व्यवहारनयदर्शने बादरापर्याप्ततेजत्कायिका इति व्यवहारभाजो भवन्ति, न तु शेषाः कपाटद्वयाद् बहिर्व्यवस्थिताः, स्वस्थान-समश्रेणिकपाटद्वयाव्यवस्थितत्वेन तेषां विषमस्थान-वर्तित्वात् । अर्थाद् येऽद्यापि कपाटद्वये न प्रविष्टा नापि तिर्यग्लोकं प्रविष्टास्ते पूर्वभवस्था एव गण्यन्ते व्यवहारनये । यथोक्तकपाटद्वय-तिर्यग्लोकाऽवगाढ-क्षेत्रं तु लोकाऽसंख्येयभाग-मात्रमेवेति व्यवहारनयमताभ्युपगमात् सूत्रे सर्वलोको न भणितमुपपात-क्षेत्रम्। ऋजुसूत्रनये तु यथोक्तकपाटद्वयतिर्यग्लोकतो बहिःस्थिता अपि अपर्याप्तबादरतेजस्कायिकाऽऽयुर्नामगोत्रोदयादपर्याप्त-बादरतेजस्कायिकत्वेन व्यपदिष्यन्त एव, तथा च तन्मताभ्युपगमादिह तेषामपर्याप्तबादरतेजस्कायिकानां क्षेत्रं सर्वलोको भणित-मित्येवं सर्वं सुस्थमेवेति ॥९॥ उक्तशेषमार्गणाभेदेषु प्रस्तुतत्रिविधक्षेत्रमाहतिविहंपि य सेसेसु स- . कसायजीवे पडुच्च इइ भणियं । "तिविह" मित्यादि, 'जगअसंखंसो' इत्येतदत्रापि संबध्यते, तथा च शेषेषु नरकगत्योघादिपञ्चोत्तरशतमार्गणाभेदेषूपपात-समुद्घातस्वस्थानभेदभिन्न त्रिविधमपि नानाजीवाश्रयं क्षेत्रं लोकासंख्यभागप्रमाणं भवति । नरकगत्योघादिशेषमार्गणाभेदास्त्विमे-सर्वे "नरकगतिभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्-भेदाः, सर्वे मनुष्यगतिभेदाः, सर्वे देवगतिभेदाः, सर्वे १२विकलेन्द्रिय-पञ्चेन्द्रियभेदाः, 'बादरपर्याप्त-पृथिव्य-प्तेजस्कायाः, 'पर्याप्तप्रत्येकवनस्पतिकायः, सर्वेत्रसकायभेदाः, पंच मनोयोगभेदा, पञ्चवचोयोगभेदाः, 'वैक्रिय-'वैक्रियमिश्रा-१ऽऽहारका-१ऽऽहारकमिश्रकाययोगभेदाः, 'स्त्री-पुरुषवेदौ, 'अपगतवेदः, "मति-श्रुता-ऽवधि ३८

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104