Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
यथैवोत्पादात् तथैव समुद्घातादपि, केवलं तिर्यक्तयोत्पित्सुभिर्मुमूर्षुभिः सप्तमभूमिनारकैः सप्तमनरकात् मारणसमुद्घातेन प्रथमतस्तिर्यक् तत ऊर्ध्वमित्येवम-ऋजुनिक्षिप्त-स्वात्मप्रदेशदण्डैः स्पृष्टं क्षेत्रमतीतानन्तकालापेक्षया यथोक्तं घनरज्जुषट्कमानं भवतीति । अत्र यद्यप्युक्तान्यनारकादितयो-त्पित्सुजीवकृतस्पर्शना भवत्येव, नवरं सा गौणी, उक्तस्पर्शनाऽन्तःप्रविष्टत्वादिति न योजिता, न पुनः सा सर्वथा न भवति, न वा नाधिकृतेति विज्ञेयम् । अनेनैव प्रकारेण वक्ष्यमाणैकादिभागस्पर्शना वसनाडिगतघनरज्जु-रूपेणोपपादनीयेति ॥१४॥ ... पढमणरय-णवगेविज्ज- .
___पंचणुत्तरविमाणभेएसुं। ण हवेइ, गमागमओ,
. दुविहा पुण जगअसंखंसो ॥१५॥ "पढमे"त्यादि, प्रथमपृथ्वीनरकभेदे, नवसु ग्रैवेयकदेवमार्गणास्थानेषु पञ्चसु अनुत्तरदेवभेदेषु चेत्येवं सर्वसंख्यया षोडशमार्गणास्थानेषु गमना-गमनकृतस्पर्शना न भवति । "दुविहा" त्ति उपपात-समुद्घातभेदभिन्ना शेषद्विविधस्पर्शना तु लोकाऽसंख्येयभागमात्रा भवति । तत्र प्रथमनरके उत्पत्स्यमानानां तिरश्चामतीताऽनन्तकालापेक्षया समग्रतिर्यक् प्रतरव्यापित्वेऽपि तिर्यग्लोकप्रथमनरकयोरन्तरालस्य रज्ज्वसंख्येयभागमात्रतया तिर्यगेकरज्जु-प्रमाणसमस्त-प्रतरस्पृष्टानामप्यात्मप्रदेशदण्डानामूर्ध्वाधो रज्ज्वसंख्येयभागमात्रोच्छ्रितत्वेन द्विविधस्पर्शनाया अपि लोकासंख्येय-भागमात्रत्वमेव भवति । एवमेव शेषप्रैवेयकादिभेदेष्वपि तत्रोप्तित्सूनां मनुष्यतया मनुष्यक्षेत्रादेव तत्रोत्पत्तेः, तेषां च तिर्यक् प्रतरासंख्येयभाग-मात्रगतस्वस्थानानां ग्रैवेयकदेवानामप्यनन्तरभवे मनुष्यतयैवोत्पत्तेरूर्वाधः षड्रज्जूच्छ्रिताऽऽत्मदण्डानां भावेऽपि
४७

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104