Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 34
________________ हवइ तह अणाहारे खित्तं तिविहंपि सव्वजगं ॥७॥ "तिरिये" इत्यादि, तिर्यग्गत्योघः, एकेन्द्रियौघः, पृथिवीकायौघः, अप्कायौघः, तेजस्कायौघः, वायुकायौघः, साधारणवनस्पतिकायौघः, "तेसिं सुहुमोहेसुं" ति एतेषामेकेन्द्रियौघादीनां षण्णां ये सूक्ष्मविशेषणविशिष्टाः षट् सूक्ष्मैकेन्द्रियौघादिलक्षणाः सूक्ष्मौघभेदास्तथा "तेसिं च अपज्जपज्जेसुं" ति तेषां सूक्ष्मैकेन्द्रियौघादीनां षण्णां ये षडपर्याप्तसूक्ष्मैकेन्द्रियादिलक्षणाः षट् पर्याप्तसूक्ष्मैकेन्द्रियादिलक्षणाश्च मार्गणाभेदास्तेषु पञ्चविंशतिमार्गणाभेदेषु, तथा वनस्पतिकायौघकाययोगौघौ-दारिकौ-दारिकमिश्र-कार्मणकाययोग-नपुंसकवेदक्रोधादिकषायचतुष्टय-मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शनानि कृष्णाद्यप्रशस्तलेश्यात्रिक-भव्या-ऽभव्य-मिथ्यात्वाऽसंश्या-ऽऽहार्य ऽनाहारिमार्गणास्वित्येवं सर्वसंख्ययाऽष्टचत्वारिंश-न्मार्गणासु प्रत्येकं 'खेत्तं तिविहंपि सव्वजगं" ति उपपातादिभेदभिन्नं यथोक्तं त्रिविधमपि क्षेत्रं 'सर्वजगत्' अशेषो लोको भवति, तद्धि प्रतिसमयं सर्वलोकव्यापिनः सूक्ष्मस्य पर्याप्तस्याऽपर्याप्तस्य वा पृथिवीकाया-धन्यतमजीवराशेः प्रत्येकं प्रवेशात्तथा ज्ञेयम् । तदुक्तं श्रीप्रज्ञापनागमे द्वितीये स्थानपदे____ 'कहि णं भंते ! सुहमपुढवीकाइयाणं पज्जत्तगाणं अपज्जत्तगाणं य ठाणा पन्नत्ता ? गोयमा ! सुहुमपुढवीकाइया जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोगपरियावनगा प० समणाउसो !' इत्यादि । इत्येवमन्योऽपि वचनसंवादो द्रष्टव्य इति ॥५-६-७॥ ३२

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104