Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 36
________________ सम्बन्धादवसातव्यम् । तदुक्तम् 'कहि णं भंते !...........एत्थणं बादर - वायुकायियाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जेसु भागेसु. समुग्घाएणं लोयस्स असंखेज्जेसु भागेसु, सट्टाणेण लोयस्स असंखेज्जेसु भागेसुं' इति ॥८॥ लोओ बायरभू-दगऽणल-पत्तेयतरुगेसु सिमपज्जेसुं । थूले य णिगोअतिगे दुहा सठाणा भवे जगअसंखंसो ॥९॥ 44 "लोओ" इत्यादि, 'लोक:' इत्यस्य 'द्विधा' इति परेणान्वयः, तथा सति बादरेषु पर्याप्ता ऽपर्याप्तविशेषणविरहितेष्वौघिकेषु ? पृथिव्यप्तेजस्कायौघ-लक्षणेषु मार्गणास्थानेषु, प्रत्येकवनस्पतिकायौघे, तथा "सिमपज्जेसुं" ति तेषां बादरपृथिवी - कायादिप्रत्येकवनस्पतिकायान्तानां चतुर्णाम् 'अपर्याप्तेषु' । अपर्याप्तबादरपृथ्वीकाया-ऽप्काय-तेजस्कायाऽपर्याप्तप्रत्येकवनस्पतिकायलक्षणमार्गणाचतुष्टये इति भावः । तथा 'थूले य" त्ति 'स्थूले' - बादरे निगोदत्रिके, ओघ-पर्याप्ताऽपर्याप्तभेदभिन्नबादरसाधारणवनस्पतिकायमार्गणाभेदत्रय इत्यर्थः । इत्येवं समुदितासु सर्वसंख्ययैकादशमार्गणासु प्रत्येकमुपपात -समुद्घातभेदाद् 'द्विधा' द्विविधं क्षेत्रं सर्वलोको भवति । एतास्वेवैकादशमार्गणासु जीवानां स्वस्थान - क्षेत्रं तु "जगअसंखंसो" त्ति लोकासंख्येयभागमात्रमेव भवति । तत्र द्विधा सर्वलोकः प्रत्येकं मार्गणासु असंख्यलोकपरिमितानां तदधिकानां वा जीवानां प्रविष्टत्वात्, लोकाऽसंख्येयभागः पुनर्बादरपर्याप्ताऽपर्याप्तपृथिवीकायादितया रत्नप्रभादिभूमिपिण्डा ३४

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104