Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 33
________________ तदा तेनैव न्यायेन केवलिसमुद्घातकृतक्षेत्राऽन्तःप्रविष्टतया मारणसमुद्घातकृतक्षेत्रप्ररूपणमपि निरवकाशतामा-स्कन्दते ? इति चेद्, सत्यम्, परं न सर्वत्र मार्गणास्थानेषु केवलिसमुद्घातो लभ्यते, अपि तु केषुचिन्मनुष्य-गत्योघादिष्वेवाऽसौ प्राप्यते, तथा च मनुष्यगत्योघादिमार्गणास्थानानि विहाय सावकाशं मारणसमुद्घात-कृतक्षेत्रप्ररूपणम्, किञ्च मनुष्यगत्योघादिमार्गणास्थानेष्वपि सकषाया-ऽकषायजीवभेदेन क्षेत्रस्य प्ररूपणीयत्वात् तत्राऽपि तत् सावकाशमेवेति सर्वमनवद्यमिति । क्षेत्रप्ररूपणावदेव समुद्घातकृतस्पर्शनाप्ररूपणाऽपि मारणसमुद्घातकृतस्पर्शनां केवलिसमुद्घातकृतस्पर्शनां वाधिकृत्य बोद्धव्येति । तदेवं क्षेत्रत्रैविध्यमुपदर्शितम् ॥४॥ अथ यथोक्तोपपातादिभेदभिन्नत्रिविधक्षेत्रं प्रोक्तमार्गणाभेदेषु प्रतिपिपादयिषुरादौ तावत् सकषायजीवानधिकृत्य प्राह तिरिये एगिदिय-भू दग-अगणि-पवण-णिगोअओहेसुं । तेसिं सुहुमोहेसुं तेसिं च अपज्ज-पज्जेसुं ॥५॥ वणओह-कायजोगो रालिय तम्मीस कम्मजोगेसुं । कीवे कसायचउगे दुअणाणा-ऽयत-अणयणेसुं ॥६॥ अपसत्थलेस-भवि-यरमिच्छत्तेसु अमणम्मि आहारे ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104