Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 32
________________ "संपइ" इत्यादि, संप्रतिकाले'-वर्तमानकाले जीवानां यत्रावस्थानं तत्क्षेत्रमुच्यते, स्पर्शना पुनरतिगते काले जीवानां यत्रावस्थानमित्येतल्लक्षणा । तत्र वर्तमानकालः समयमात्रः, अतिगतस्त्वनन्तपुद्गल-परावर्तमान इत्येवं कालविशेषाक्षिप्तः क्षेत्र-स्पर्शनयोविशेषः । तत्र क्षेत्रं त्रिधा भवति, कथमित्याह-"उववाये" त्यादि, उपपातो नाम भवप्रथमसमयः, तत उपपातात्, उपपातापेक्षया क्षेत्रम्, नरकगत्योघादि- तत्तन्मार्गणानुरूपनारकत्वादितत्तत्पर्यायापन्नभवप्रथमसमय-वर्तिजीवराशिसमवगाढाकाशप्रदेशा इति यावत् । स्वस्थानं नाम उत्पत्त्युत्तरं तेन तेन नारकत्वादिभावेन यत्र जीवानां साहजिकमवस्थानम्, तदपेक्षया क्षेत्रं स्वस्थानक्षेत्रम् । समुद्घातस्तु 'वेयण कसाय मरणे वेउव्विय-तेयए य आहारे । केवलि य समुग्घाया' इति वचनात्सप्तविधः, तस्मात् समुद्घातात्, समुद्घातापेक्षयेत्यर्थः । ___ इह सप्तविधसमुद्घातमध्ये वक्ष्यमाणक्षेत्रविशेषः स्पर्शनाविशेषश्च मारणान्तिकसमुद्घातापेक्षया केवलिसमुद्घातापेक्षया वा विज्ञेयः, न पुनः शेष-पञ्चविधसमुद्घातापेक्षया, कथम् ? पञ्चविधसमुद्-घातेन स्वस्थानादिक्षेत्रतोऽधिकक्षेत्रस्यावगाहभावेऽपि तथाविधक्षेत्रस्यस्वस्थानादिक्षेत्रतोऽसंख्येयभाग - लक्षणस्तोकमात्रांशेनाधिकतया भेदेनानुपलक्ष्यमाणत्वात्, तत्रैव मारणसमुद्घातसम्भवे तु तस्य मारणसमुद्घाताक्षिप्तक्षेत्रान्तःप्रविष्टत्वाच्च । अत एव यत्र समुद्घातकृतस्पर्शनाप्रतिषेधः करिष्यते तत्रासौ मारणान्तिकसमुद्घाताभावेन विशेषप्ररूपणाऽविषयत्वा-द्विज्ञातव्यः, न पुनः सर्वथा समुद्घाताभावात् । ननु शेषपञ्चविधसमुद्घातकृतक्षेत्रविशेषस्य मारणसमुद्घातकृतक्षेत्रान्तःप्रविष्टतया तत् पञ्चविधसमुद्घातकृतक्षेत्रं यदि नाधिक्रियेत ३०

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104