Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
भेदाः, वचोयोगसामान्यः, सत्या-ऽसत्यादिभेदान्मनोयोगवच्चत्वारो वचोयोगोत्तरभेदाश्चेति । "वेए" त्ति स्त्री-पुरुष-नपुंसकभेदात् त्रयोऽपगतवेदश्चेति चत्वारो वेदमार्गणाभेदाः । “कसाय" त्ति क्रोध-मान-मायालोभभेदा-च्चत्वारः, प्रतिपक्षस्यापि ग्रहणात्पञ्चमो-ऽकषायभेदश्चेति । 'नाणे" ति मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञान-मनःपर्यवज्ञान-केवलज्ञानानि, प्रतिपक्षभूताज्ञानभेदानामपि ग्रहणात् मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानानि चेति अष्टौ ज्ञानमार्गणा-भेदाः । “संजम" त्ति प्रागिव सप्रतिपक्षा अष्ट संयममार्गणाभेदाः । तद्यथा-संयमौघ-सामायिक-छेदोपस्थापनीयपरिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातसंयम-देशसंयमा-ऽसंयमा इति । "दंसण"त्ति चक्षुर्दशना-ऽचक्षुर्दर्शना-ऽवधिदर्शन-केवलदर्शनभेदाच्चत्वारो दर्शनमार्गणाभेदाः । “लेसा" त्ति कृष्ण-नील-कापोततेजः-पद्म-शुक्लभेदात् षड् लेश्याभेदाः । "भव" त्ति भव्यस्तत्प्रतिपक्षभूताभव्यश्चेति द्वौ भेदाविति । "सम्मे" त्ति सम्यक्त्वौघः, क्षायिकक्षायोपशमिकौ-पशमिकसम्यक्त्व-सम्यम्मिथ्यात्व-सासादन-मिथ्यात्वानीति सप्रतिपक्षाः सप्तेति । “सन्नि" त्ति प्रतिपक्षसहितत्वात्संश्यसंज्ञी चेति द्वौ । तथैव "आहारे'' त्ति आहारका-ऽनाहारकाविति द्वौ भेदाविति । "चउसयरिसयं" ति तदेते नरकगत्योघाद्याः सर्वसंख्यया चतुःसप्तत्युत्तरशतं ज्ञेया इति ॥२-३॥
उक्ता नरकगत्योघाद्या अधिकृतमार्गणा भेदाः । एतर्हि यदुक्तम् 'क्षेत्रस्पशने ब्रवीमि' तत्र क्षेत्र-स्पर्शनयोविशेष क्षेत्रभेदांश्चाह-...
संपइकाले खेत्तं,
फुसणा पुण होइ अइगये काले । खेत्तं तिहोववाय-सठाण-समुग्घायभेयाओ ॥४॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104