Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
चउ-छ-दु-सत्त-दुग-दुगं,
चउसयरिसयं कमा णेया ॥ ३ ॥ "गइ-इंदिए य" इत्यादि, इहोत्तरगाथाप्रान्त भणितेन ‘कमा णेया' इति वचनेन गतीन्द्रियेत्यादीनां 'सगचते-गुणवीसे'त्यादिभिर्यथासंख्यमन्वयः, तथा च सप्तचत्वारिंशद्गतिभेदाः । तद्यथा-नरक-गत्योघः, रत्नप्रभादिपृथ्वीभेदभिन्नाः सतमनरकगत्युत्तरभेदाः, तिर्यग्गत्योघः, पञ्चेन्द्रियतिर्यगोघः, पर्याप्ता-ऽपर्याप्त-तिरश्चीभेदात् त्रयः पञ्चेन्द्रियतिर्यगुत्तरभेदाः, मनुष्यगत्योघः, पर्याप्ता-ऽपर्याप्त-मानुषीभेदतस्त्रयो मनुष्यगत्युत्तरभेदाः, देवगत्योघः, भवनपतिव्यन्तर-ज्योतिष्कद्वादशकल्पोपपन्न-नवग्रैवेयक-पञ्चानुत्तरवैमानिकभेदभिन्ना एकोनत्रिंशद्देवगत्युत्तरभेदा इति । 'इंदिए' त्ति एकोनविंशतिरिन्द्रिय-भेदाः । तद्यथा-एकेन्द्रियौघः, ओघ-पर्याप्ताऽपर्याप्तभेदात् त्रयः सूक्ष्मैकेन्द्रियभेदास्तथैव त्रयो बादरैकेन्द्रियभेदा इति समस्ताः सप्तैकेन्द्रियभेदाः; ओघ-पर्याप्ताऽपर्याप्तभेदभिन्नास्त्रयो द्वीन्द्रियभेदास्तथैव त्रयस्त्रीन्द्रियभेदास्त्रयश्चतुरिन्द्रियभेदास्त्रयः पञ्चेन्द्रियभेदाश्चेति । 'काये' त्ति द्विचित्वारिंशत्कायमार्गणाभेदाः । तद्यथा-अनन्तरोक्तैकेन्द्रियमार्गणाभेदवत्सप्तपृथिवीकायभेदाः, सप्ताऽप्कायभेदाः, सप्त तेजस्कायभेदाः, सप्त वायुकायभेदाः, वनस्पतिकायौघः, प्रागिव सप्त साधारणवनस्पतिकायभेदाः, ओघपर्याप्ता-ऽपर्याप्तभेदात् त्रयः प्रत्येकवनस्पतिकायभेदाः, तथैव त्रयस्त्रसकायभेदाश्चेति । "जोए" त्ति अष्टा दश योगमार्गणाभेदाः । तद्यथा-काययोगौघः, औदारिक-तन्मिश्र-वैक्रिय-तन्मिश्रा-ऽऽहारकतन्मिश्र-कार्मण-काययोगभेदभिन्नाः सप्त काययोगोत्तरभेदाः, मनोयोगसामान्यः, सत्याऽसत्य-मिश्र-व्यवहारमनोयोग-भेदाच्चत्वारो मनोयोगोत्तर
२८

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104