________________
तदा तेनैव न्यायेन केवलिसमुद्घातकृतक्षेत्राऽन्तःप्रविष्टतया मारणसमुद्घातकृतक्षेत्रप्ररूपणमपि निरवकाशतामा-स्कन्दते ? इति चेद्, सत्यम्, परं न सर्वत्र मार्गणास्थानेषु केवलिसमुद्घातो लभ्यते, अपि तु केषुचिन्मनुष्य-गत्योघादिष्वेवाऽसौ प्राप्यते, तथा च मनुष्यगत्योघादिमार्गणास्थानानि विहाय सावकाशं मारणसमुद्घात-कृतक्षेत्रप्ररूपणम्, किञ्च मनुष्यगत्योघादिमार्गणास्थानेष्वपि सकषाया-ऽकषायजीवभेदेन क्षेत्रस्य प्ररूपणीयत्वात् तत्राऽपि तत् सावकाशमेवेति सर्वमनवद्यमिति । क्षेत्रप्ररूपणावदेव समुद्घातकृतस्पर्शनाप्ररूपणाऽपि मारणसमुद्घातकृतस्पर्शनां केवलिसमुद्घातकृतस्पर्शनां वाधिकृत्य बोद्धव्येति । तदेवं क्षेत्रत्रैविध्यमुपदर्शितम् ॥४॥
अथ यथोक्तोपपातादिभेदभिन्नत्रिविधक्षेत्रं प्रोक्तमार्गणाभेदेषु प्रतिपिपादयिषुरादौ तावत् सकषायजीवानधिकृत्य प्राह
तिरिये एगिदिय-भू
दग-अगणि-पवण-णिगोअओहेसुं । तेसिं सुहुमोहेसुं
तेसिं च अपज्ज-पज्जेसुं ॥५॥ वणओह-कायजोगो
रालिय तम्मीस कम्मजोगेसुं । कीवे कसायचउगे
दुअणाणा-ऽयत-अणयणेसुं ॥६॥ अपसत्थलेस-भवि-यरमिच्छत्तेसु अमणम्मि आहारे ।