Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir ९४ न्यत्कालिक गाढा योगसाध्यमुत्कालिकमनागाद्यायोगसाध्यं ध्यायामि । श्रुतं हि द्विधाअङ्गप्रविष्टमनङ्गप्रविष्टं च । ......... 11 यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ ४१ ॥ यस्या अद्याप्येको षोडश पश्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड सिद्धप्राभृतवसुदेवहिण्डीश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्ग्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ ४३ ॥ कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दुप्रायाणि || व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिकं मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि ॥ ४५ ॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६ ॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा • माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्वरूपां कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्ज्ञाता फलानां 'कुत्रचिन्नगरे बहुपद्मपरि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332